________________
349
१. वज्रस्वामिचरितम् ।
वत्स! त्वं यदि तत्त्वज्ञः संयमाध्यवसायवान् । गृहाण तदिदं कर्मरजोहरणहेतवे ॥ ८७ ॥-युग्मम । उत्प्लुत्य मृगवत् सोऽथ तदीयोत्सङ्गमागतः । जग्राह चमराभं तच्चारित्रधरणीभृतः' ।। ८८ ॥ ततो जयजयारावो मङ्गालध्वनिपूर्वकम् । समस्ततूर्यनादोर्जिसज्जः' समजनि स्फुटः ॥ ८९॥ संघस्याचा तदाऽकार्षी राजा तद्रवस्ततः । 'वं स्थानं मुदिता जग्मुर्धर्मित्रातपुरस्कृताः ॥ ९०॥ दध्यौ सुनन्दा सौदर्य आर्यपुत्रः सुतोऽपि च । मदीया यतयोऽभूवंस्तन्ममापीति सांप्रतम् ॥ ९१ ॥ 5 त्रिवार्षिकोऽपि न स्तन्यं पपौ वनो व्रतेच्छया । दीक्षित्वा गुरुभिस्तेन तत्र मुक्तः समातृकः ॥ ९२ ।। ४.अथाष्टवार्षिकं वनं कृष्ट्वा' साध्वीप्रतिश्रयात् । श्रीसिंहगिरयोऽन्यत्र विजहुः सपरिच्छदाः ॥ ९३ ॥ तदा चाप्रतिबन्धेन तेषां विहरतां सताम् । पर्वतासन्नमेदिन्यामीर्यासमितिपूर्वकम् ।। ९४ ॥ वनप्राग्भवमित्रैश्च तं दृष्ट्वा जम्भकामरैः । वैक्रियाऽऽविष्कृता मेघमाला तस्य परीक्षणे ॥ ९५ ॥ कुरंकरस्वरैः केकिकेकारावेण मिश्रितैः । तिलतन्दुलितो नादः श्रुतिस्वाद्यसुधाऽभवत् ॥ ९६ ।। नीरैर्नदद्भिद्दामसंभवद्भिनिरंतरम् । प्लाविता भूस्तद्वैतघटितेव तदाऽभवत् ॥ ९७ ॥ विपुले तस्थिवांसस्ते गिरेरेकत्र कन्दरे । गुरवस्तोयजीवानां विराधनमनिच्छवः ॥ ९८ ॥ एवं घनाघने घोरे कथंचिद्विरते सति । उपोषिता अपि श्रेयस्तृप्तास्ते मुनयोऽवसन् ॥ ९९ ॥ जगजीवनमोषेण तदा सूरोऽपि शङ्कितः । रसावस्थापनाद् विश्वे बभूव प्रकटोदयः ॥ १०॥ आनीय वारिधेर्वारि जगतीपरिपूरणात् । अवसन्ने च पर्जन्ये श्रमात् सुप्त" इवाध्वनौ ॥ १०१ ॥ 15 ततस्तच्चारुवृत्तेन 'लेखैहल्लेखशालिभिः । वाणिज्यकारकव्याजात् पारणाय न्यमबि सः॥१०२॥-युग्मम् । एषणात्रितये चोपयुक्तो भुक्तावनादृतः । तत्र वज्रो ययौ प्राप्य गुरोरनुमति ततः ।। १०३ ॥ द्रव्य-क्षेत्र-काल-भावैरुपयोगं ददौ च सः । द्रव्यं कूष्माण्डपाकादि क्षेत्रं देशश्च मालवः ॥ १०४ ॥ कालो "ग्रीष्मस्तथा भावे विचार्येऽनिमिषा अमी । अस्पृष्टभूकमन्यासा अम्लानकुसुमस्रजः॥ १०५ ॥ चारित्रिणां ततो देवपिण्डो नः" कल्पते" नहि" । निषिद्धा उपयोगेन तस्य हर्ष परं ययुः ॥ १०६॥ 20
-त्रिभिर्विशेषकम् । तत्र च प्रकटीभूय प्राणमंस्तं मुनिं तदा । वज्रं सद्वृत्ततेजोभिर्भास्वरं भास्वदंशुवत् ॥ १०७॥ अन्यत्र विहरतश्चान्यदा ग्रीष्मर्तुमध्यतः । प्राग्वदेव सुरास्तेऽमुं घृितपूरैय॑मन्त्रयन् ।। १०८ ।।
वने तत्रापि नियूंढे विद्यां ते व्योमगामिनीम् । ददुर्न दुर्लभं किंचित् सद्भाग्यानां हि तादृशाम् ॥ १०९ ॥ ६५. बाह्यभूमौ प्रयातेषु पूज्येष्वथ परेद्यवि । सदेषणोपयुक्तेषु गीतार्थेषु च गोचरम् ॥ ११० ।।
25 अवकाशं च बाल्यस्य ददच्चापलतस्तदा । सर्वेषामुपधी मग्राहं भूमौ निवेश्य च ॥ १११ ॥ वाचनां प्रददौ वनः श्रुतस्कन्धव्रजस्य सः । प्रत्येकं गुरुवक्त्रेण कथितस्य महोद्यमात् ॥ ११२ ।।
-त्रिभिर्विशेषकम् । श्रीमान सिंहगिरिश्चात्रान्तरे वसतिसन्निधौ । आययौ गर्जितौर्जित्यं शब्दं तस्याशृणोच्च सः ॥ ११३ ॥ दध्यौ किं यतयः प्राप्ताः स्वाध्यायः पालयन्ति माम् । निश्चित्यैकस्य वचस्य शब्दं ते तोपतो बभुः॥११४।। 30 पुनर्दध्यावयं गच्छो धन्यो यत्रेदृशः शिशुः । क्षोभोऽस्य मा भूदित्युच्चैःस्वरं नैषेधिकी व्यधात् ॥ ११५ ॥
1A °धरिणी 12N सद्यः । 30 संस्थानं । 4 N दीक्षितो। 5-N कृत्वा । 6 B प्रतिधियात् । 7 B वैक्रियाविकृता । 8 B°तुन्दलितो,C°तंडुलितो। 9A°घोषेण C पोषेण । 10 B°वाप्रक°। 11 B°खप्त° । * 'देवता' इति Bटि.। 12 A भीष्म । 13 B न । 14 N कल्प्यते । 15 B नहिः । 'घेवर' इति B टि.। 16 N नैषेधिक।