________________
५३६
हीरसौभाग्यम्
[सर्ग १४ श्लो० १४८-१५०
(બે ઢીંચણ, બે હાથ અને મસ્તક) પ્રણિપાત કર્યો. “હે પ્રભે, આપ ચોથા આરામાં તે મુક્તિપદને આપનારા છો જ, પરંતુ આ પંચમકાળમાં મને મુક્તિરૂપી પંચમી ગતિને આપનારા બનો!” આ વાત કહેવાની ઇચ્છાથી જ જાણે પંચાંગ પ્રણિપાત કર્યો ન डोय! ।।१४८॥
मुनीन्दुना शौर्यपुरे पदाम्बुजैविभूष्य दृष्टी इव तत्पुरश्रिया । वृषाङ्कनेमिप्रतिमे पुरातने प्रतिष्ठते तत्र सनेमिपादुके ॥ १४९ ॥
मुनीन्दुना हीरसरिचन्द्रेण तत्र शौर्यपुरे पुरातने जीणे पूर्व केनापि कारिते न परं प्रतिष्ठापिते कथंचिदप्रतिष्ठिते एव स्थिते वृषाङ्कस्य श्रीऋषभदेवस्य नेमेररिष्टनेमिनाथस्य प्रतिमे मूर्ती प्रतिष्ठते अञ्जनशलाक्यादिकरणेन स्थापिते । किं च श्रीहीरसीहविमलगणिपितामहसोहिलसंघपतिकारिते इति मूलशौर्यपुरलोके किंवदन्ती इति । उत्प्रेक्ष्यतेतत्पुरश्रिया शौर्यपुरलक्ष्म्या दृष्टी नेत्रे इव। किंभूते प्रतिभे । सहनेमेः शैवेयस्य पादुकाभ्यां पदद्वन्द्वप्रतिबिम्बाभ्यां वर्तेते ये । किं कृत्वा । पदाम्बुजः । पूज्यत्वादूबहुवचनम् । चरणकमलैजीर्ण शौर्यपुरं विभूष्यालंकृत्य ॥
શ્લેકાર્થ
ત્યારપછી આચાર્ય દેવે પિતાનાં ચરણકમલવડે શૌર્યપુરીને શોભાવીને, નગરની મધ્યમાં રહેલા પુરાતન જીર્ણપ્રાય બની ગયેલા જિનમંદિરમાં શ્રીષદેવપ્રભુની અને નેમિનાથ ભગવાનની ચરણપાદુકા સહિત પ્રતિમાનાં દર્શન કર્યા. ૧૪૯
दिनद्वयीं तद्यदुवंशबाहुजव्रजान्कृपाधर्मधियो विधाय सः । ततो मुनिक्षोणिमणिर्यवीवृतत्तटात्पयःपूर इवापगापतेः ॥ १५० ॥
स मुनिक्षोणिमणिहीरविजयनामा साघुवसुधारत्न सूरीन्द्रः ततः शौर्य पुरान्यवी. तत् निवर्तते स्म पश्चाद्ववले । क इव । पयःपूर इव । यथा आपगापतेनदीनाथस्य समुद्रस्य पानीयप्लव: तटात्तीरान्निवर्तते । 'जयी महीमानिव वार्धिरोधसः'। क इव । महीमानिव । यथा दिग्जैत्रयात्रासु अप्रतिहतशक्तित्वेन जयी राजा अर्थाश्चतस्रो दिशो विजित्य वाधिरोधसः पयोनिधिप्रतीरान्निवर्तते । किं कृत्वा । दिनद्वयीं वासरयुगलम् । यावत्कालाध्वनोनॆरन्तये द्वितीयावत् । तस्मिन् शौर्यपुरे यदुवंश्यान्यादवकुलोत्पन्नान बाहुजानां राजपुत्रसुभटानां व्रजान् गणान् । 'राजन्यो बाहुसंभवः' इति हैम्याम् । 'संध्याधियेवास्त यान्ति समस्तबाहजभुजातेजःसहस्रांशवः' इति नैषधे। कृपा जीवाहिमा सैव धर्मस्तत्र धीबुद्धिः परिणामो येषां तादृशान् विधाय कृत्वा ॥