SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५०४ ___ हीरसौभाग्यम् [सर्ग १४ श्लो० ८६-८८ ङ्गअणुत्तरोपपातिकादशाङ्ग-प्रश्नव्याकरणाङ्ग-विपाकश्रुताङ्गलक्षणैरङ्गरुदीतं प्रादुर्भूतम् । किं लक्षणैः अङ्गैः रुद्रविग्रहश्च । अस्तः क्षिप्तो विनाशितः पुष्पध्वजः कंदर्पस्तथा कालः कलिकालो दैत्यविशेषस्तयोः केलिबिलासो यैः । 'उदी तमातङ्कितवानशङ्कत' इति नैषधे । पुनरिह पुस्तके पद्मिनीवरैर्नलिनीनाथर्भास्करैरिव परैरङ्गभ्योऽन्यैर्दादशभिः उपपत्तिका-राजप्रश्नीयजीवाभिगमप्रज्ञापना-जम्बूद्वीपप्रज्ञप्तिका-चन्द्रप्रज्ञप्तिका-सूर्यप्रज्ञप्तिका-निरयावलिका-कल्पिका कल्पावतंसिका-पुष्पिता-पुष्पचूलिका-वृष्णिदशा-इति द्वादशसंख्याकैरङ्गानामेव वाच्य सूचकै रूपाङ्गदीये । किंभूतैः उपाङ्गैः सूर्यश्च । तमसामज्ञानानां दुष्कृतानां वा अन्धकाराणां स्तोमस्य समूहस्य मिदायां विदारणे विदांवरैः कुशलैः वेत्तृषु मुख्यैः ॥ શ્લેકાર્થ આ પુસ્તકમાં કામદેવ અને કલિકાલરૂપી દૈત્યના નાશ અગિયાર રુદ્રો સમાન આચારંગ, સૂયડાંગ, ઠાણાંગ, સમવાયાંગ, વિવાહપ્રજ્ઞપ્તિ, જ્ઞાતાધર્મકથાંગ, અંતકૃતદશાંગ, ઉપાસકદશાંગ, અનુત્તરપાતિકદશાંગ, પ્રશ્નવ્યાકરણગ અને વિપાકતાંગ અને અગિયાર અંગે છે, અને અજ્ઞાનરૂપી અંધકારને ભેદનાર બાર સૂર્ય સમાન ઉપ પાતિક, રાયપસેણિય, જીવાભિગમ, જંબુદ્વીપપ્રજ્ઞપ્તિ, ચંદ્રપ્રજ્ઞપ્તિ, સૂર્ય પ્રજ્ઞપ્તિ, નિરયાવલિ કલ્પ, કલ્પાવર્તાસિક, પુષ્પિત, પુષ્પમૂલિકા અને વહિનદશા એ બાર ઉપાંગ છે. જે ૮૬ प्रकीर्णकैधर्मधरापतेरिव प्रकीर्णकैः प्रादुरभावि तत्र च । परश्वधैश्छेदकरैर्धरारुहामिवांहसां छेदवरागमैस्तथा ॥ ८७ ॥ चतुःप्रमाणैरपि मूलवाङमयैश्चतुर्गतीनां प्रतिषेधकैरिव । युगेन वा नन्द्यनुयोगशास्त्रयोदशोरिव श्रीजिनशासनश्रिया ॥ ८८ ॥ च पुनस्तत्र पुस्तके चतुःशरण-आतुरप्रत्याख्यान-महाप्रत्याख्यान-भक्तपरिज्ञान-तेदुलवैकालिक चन्द्राविध्वज गणिविद्या-मरणविभक्ति-देवेन्द्रस्तव-संस्तारकप्रकीर्णक-इति नामभिर्दशप्रकीर्णकैः प्रादुरभावि प्रकटीभूतम् । उत्प्रेक्ष्यते-धर्मधरापतेः धर्मनाम्नो राज्ञः प्रकीर्णकैश्चामरेरिव । तथा पुनः निशीथ-महानिशीथ-व्यवहार-दशाश्रुतस्कन्ध-पञ्चकल्प-जीमूतकल्प-बृहत्कल्पनामभिः छेद इति संज्ञया वरैः प्रधानैः आगमैः सिद्धान्तैः आविर्भूयते स्म । किंभूतैः । अंहसां पापानां छेदकरैः खण्डशः कारिभिः । कैरिव । परश्वधैरिव । यथा कुठारैः धरारुहां वृक्षाणां शतसहस्रलक्षशः शकलकारकैः भूयते । अपि पुनश्चत्वारि प्रमाणानि येषां तैश्चतुःप्रमाणैः मूलवाङमयैः आवश्यकदशवैकालिक-उत्तरायन-पिण्डनियुक्तिरितिमूलाभिधानराद्धान्तैराविरभावि । उत्प्रेक्ष्यते-चतुःप्रमाणत्वेन चतुणाँ नरक-तिर्यङ्मानव-दानवाहितानां दुष्टानां निकृष्टानां भवभ्रमणहेतूनां नीचजातीनां वा गतीनां प्रतिषेधकैर्निवारकैरिव । वा पुनः नन्दी तथा अनुयोग इति नाम ययोस्तादृशयोः शास्त्रयोर्युगेन
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy