________________
D
सर्ग १७ : श्लो० २१२]
हीरसौभाग्यम्
८८५
द्विरागताम्' इत्युक्तत्वेन स्वर्गाधारत्वाच्च चक्रवर्ती सुमेरुः । अथ वा 'सातकुम्भावनीभत्' इति पाठः | सुवर्णाचलो वर्तते । किंभूतः । मार्तण्डो भास्करो मुख्योऽग्रणीः प्रधानो येषु तादृशाः ग्रहाः सोममङ्गलाद्या अष्टाशीतिसंख्या उपलक्षणानक्षत्रतारकास्तेषां गणाः समूहास्तैः कलितो युक्तः । तथा यावन्तमनेहसं शर्वरीसार्वभौमश्चन्द्रमाः। किंभृतः । जनदृशां लोकलोचनानां पीयूषपूरैः सुधारसप्रसरैः प्रीतिं सृजति । प्रीणातीत्यर्थः । तया यावत्पाघोजपाणिः सहस्त्रकिरणो विद्यते । किंभूतः । हरितो दिश एवालसदृशो मृगाक्ष्यस्तासामास्यानि मुखान्येव पद्मानि विकाशयतीत्येवंशीलः । तथा यावत्कुण्डलीन्द्रो नागराजः शेषनागः भूपीठभार मेदिनीमण्डलभार भजति । वहतीत्यर्थः । कैः । निजैरात्मीयैः फणामण्डलः सहस्तफणैः ॥
શ્લેકાર્થ
જયાં સુધી સૂર્ય આદિ ગ્રહોના સમૂહથી યુક્ત મેરૂપર્વત છે. જ્યાં સુધી ચન્દ્ર પિતાના અમૃતરસથી મનુષ્યની દષ્ટિને આનંદ આપે છે, જ્યાં સુધી સૂર્ય દિગાંગનાઓના મુખકમલને વિકસિત કરે છે, તેમજ જયાં સુધી શેષનાગ પિતાની હજાર ફણા વડે પૃથ્વીના ભારને વહન કરે છે. ૨૧૧
यावज्जम्भारिधूमध्वजजलजसुहृत्सू नुरक्षःसवन्ती___ कान्तावासाहिकान्तत्रिनयनसवयः पार्वतीशा दिगीशाः। यावत्पाथोधिपृथ्वीधरगुरुगुरुतां बिभ्रती रत्नगर्भा
जन्तून्यावत्पुनाति त्रिभुवनभवनान्भारती विश्वभर्तुः ॥२१२ ॥
यावन्त काल जम्भारिः पुरंदरः, धूमध्वजो वह्निः, जलजानां पद्मानां सुहृन्मित्र भास्वान, तस्य सूनुनन्दनो यमः, रक्षो ने तिः, स्त्रवन्तीकान्तो नदीपतिः समुद्रः तत्र वासो वेश्म यस्य सोऽर्णवमन्दिरो वरुणः, अहिकान्तो वायुः, त्रिनयनस्य सवया मित्रमीशसखा धनदः, पार्वत्या गौर्या ईशो वल्लभः शंभुः । 'दण्डधरोऽर्कसूनुः', तथा 'वरुणस्त्वर्णवमन्दिरः प्रचेताः', तथा 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः', तथा 'पशुप्रमथभूतोमापतिः', एतानि चत्वार्यप्युक्तपदानि हैम्याम् । एते सर्वेऽपि दिगीशा दिक्पाला वर्तन्ते । तथा यावद्रत्नगर्भा भूरास्ते । किं कुर्वती । पाथोधीनां सर्वसमुद्राणां तथा यावद्वसुधावलयवर्तिनां पृथ्वी. धराणां मेरुप्रमुखपर्वतानां च गुरुमतिशायिनी गुरुतां गरिमाण भारभर बिभ्रती धारयम्ती । तथा यावविश्वभर्तुस्त्रैलोक्यनायकस्य तीर्थकरस्थ भारती सिद्धान्तरूपा वाणी त्रिभुवनभवनान् स्वर्गपातालभूमिषु गृहाणि येषां तादृशान्नाकिनागनागराकान्तून् प्राणिनः पुनाति पवित्रयति तारयति ॥