SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सर्ग १७ : श्लो० १९६] हीरसौभाग्यम् ८७५ अर्थात्सूपस्य पार्श्ववर्तिनी भूमी वितीर्णा प्रदत्ता । केनेव । सिद्धनृपेणेव । अत्र यथा सिद्धाचले श्रीशर्बुजयपर्वते नाभिभव श्रीऋषभदेवमचितु सिद्धराजजयसिंहदेवेन समीपभूमौ विमलाचलसमीपवर्तिनो द्वादश संनिवेशा ग्रामा वितीयन्ते स्म । 'देवकपत्तने स्वनिर्मापित प्रासादपूर्णीभवनानन्तरं सोमेश्वरयात्रानिमित्तप्रस्थितेनाध्वनि स्वसाध समानीतमाननीयश्रीहेमचन्द्रसूरीन्द्रेणार्धमार्गागतान्तातीततीर्थकृन्मुनिजनसिद्धिगमनक्षेत्रादिमाहात्म्यकथनादत्यन्नतरागेण प्रच्छन्नमागत्य विमलगिरियावां विधायादिदेवपूजाकृते द्वादश ग्रामान्दत्वा स्वानीकमलकृतवान् ।' इति कुमारपालप्रबन्धचरित्रादिषु प्रोक्तमस्तीति ॥ શ્લેકાર્થ શ્રીહેમચન્દ્રાચાર્યજી પાસેથી શત્રુંજયમાહાસ્ય સાંભળીને અને ભગવંતના દર્શન પ્રભાવિત બનેલા ગુજરાતિ સિદ્ધરાજ જયસિંહ રાજાએ શ્રી શત્રુંજય ઉપર શ્રીયુગાદિદેવની પૂજા માટે જેમ બાર ગામ આપ્યાં હતાં તેમ અકબરબાદશાહે આચાર્યદેવના તૂપની પૂજા માટે સ્તૂપની સમીપમાં આવેલી બાર વીઘાં જમીન આપી. ૧૫ છે माकन्दमोचाबकुलप्रियालकङ्केल्लिकुन्दादितरूपयुक्तम् । तस्याभितोऽभूत्सुमनोद्रुमाझं वनं सुमेरोरिव भद्रसालम् ॥ १९६॥ तस्य स्तूपस्याभितः परितो वन काननमभूत् । किंभूत' वनम् । माकन्दाः सहकाराः, मोचा: कदल्या, बकुला: केसराः 'बउलसिरी' इति प्रसिद्धाः, प्रियाला राजादनाः, क.. ल्लयः अशोकाः, कुन्दा मुचकुन्दाः, ते आदौ येषां तादृशस्तरुभिर्दुमैः उपयुक्तम् । किमिव । भद्रसालमिव । यथा सुमेरोः सुवर्णाचलस्याभितः परितो भूमौ भद्रसाल नाम वनमभूत् । किंभूतम् । सुमनोद्रुमाः कल्पवृक्षाः अङ्के उत्सङ्गे मध्ये यस्य । तथा माकन्दादिपादपैः कलित च । स्तूपवन तु अर्थात्किभूतम् । सुमनोभिः कुसुमैरुपलक्षणात्पत्रपल्लवफलललिता द्रमाः पूर्वोक्ता इतरे च तरवः अङ्के मध्ये यस्य तत् ॥ શ્લેકાર્થ જેમ મેરૂપર્વતની ચારે બાજુ કલ્પવૃક્ષોથી સુશોભિત “ભદ્રશાલ' નામનું વન છે, તેમ સ્તૂપની ચારેબાજુ આમ્ર, કદલી, બકુલ, અશોક, રાયણ અને મચકુંદ આદિ વૃક્ષોથી સુશોભિત એવું વન છે. જે ૧૯૬
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy