________________
सर्ग १७ ; श्लो० १६६-१६७]
हीरसौभाग्यम्
८५९
શ્લોકાથ
પુત્ર સહિત તે બ્રાહ્મણ પિતાના ઘરની અગાસીમાં બેઠા હતા ત્યારે તેણે રાત્રિના પ્રારંભે આકાશમાર્ગે જતા દેવવિમાનને જોયું, તે દેવવિમાન ચન્દ્રમંડળની જેમ દેદીપ્યમાન તેજપૂંજ હતું. છે ૧૬૫
परस्परं वार्तयतां सुराणां तदा नराणामिव देवमार्गे । इदं तदन्तर्ध्वनितं तमायां शुश्राव स श्रोत्रपुटेन भट्टः ॥ १६६ ॥
स पूर्वकथितो भट्टस्तमायां रजन्यां श्रोत्रपुटेन निजश्रवणपुटकेन इदमग्रे प्रोच्यमान तस्य विमानस्यान्तर्मध्ये ध्वनितं शब्दं शुश्राव आकर्णयामास । केषाम् । सुराणां देवानाम् । किं कुर्वताम् । परस्पर मिथो वार्तयतां किंवदन्तीं कुर्वताम् । क्व । देवमार्गे आकाशे । कदा। तदा सरेनिर्वाणसमये । केषामिव । नराणामिव । यथा मानवा अन्योन्य वार्तयन्ति तथा वार्तयतां मनुष्याणां शब्दः श्रयते ।।
શ્લેકાર્થ
આકાશમાર્ગે જતા તે દેવવિમાનમાં બેઠેલા અને મનુષ્યની જેમ પરસ્પર વાર્તા કરતા એવા દેવને અને દેવોને વાર્તાલાપ તે બ્રાહ્મણે સાંભળે . ૧૬૬ છે
सौमङ्गलाद्या इव नाभिसूनोर्वत्क्रं व्रतीन्दोरिह जीवतोऽस्य । विलोकयामश्च यथा कृतार्थाः स्यामः सुरास्तत्त्वरितं चरन्तु ॥ १६७ ॥
यद्यस्मात्कारणादिहोन्नतनगरे इह सरिभवे वा जीवतः प्राणान्धारयतोऽस्य व्रतीन्दोरेतस्यैव हीरविजयसूरेः वक्र वदन विलोकयामः पश्यामः । के इव । सौमङ्गलाचा इव । यथा स्वनिर्वाणसमयमवसायानशन निर्मातुमष्टापदपर्वते निवेदिते समवसृतस्य नाभिस्रनोः श्रीऋषभदेवस्य अष्टापदाद्रिरक्षकैर्भरतचक्रिणः पुरस्तात्तदुदन्ते जीवतो भगवतः पितुः पितामहस्य स्वामिनो वदनारविन्दं विलोकयाम इति कृत्वा गलबलबाष्पप्लवप्लावितविलोचनयगला भरतचक्रितदङ्गजप्रमुखा इक्ष्वाकुवंशोद्भवा बहवो जना ओजायमाना अष्टापदाचल प्रचेलुः-इति शत्रुजयमाहात्म्ये विस्तारोऽस्ति । पुनर्यथा येन प्रकारेण सूरिवत्कवीक्षणवि