________________
Learnikibel-MARDAND
ASRAMCN
सर्ग १७ : श्लो० १५१-१५२ ]
हीरसौभाग्यम्
वृन्दं द्रुमाणामिव पुष्पकालाधस्मादृतेऽन्यद्विफलं व्रतादि । शुभः स भावोऽस्तु ममापवर्गमार्गानुलग्राणभृतां सहायः ॥ १५१ ॥
यस्मात् शुभभावाहते विना अन्यदितरव्रतादि सर्व नियमचारित्रादिपालनप्रमुख सक. लमपि विफल बन्ध्यमेव । किमिव । वृन्दमिव । यथा पुष्पकालाद्वसन्तसमयाते समस्तं द्रुमाणां पादपानां वृन्द कदम्बकं निष्फल भवेत् । स शुभो भावो ममास्तु निर्मलपरिमाणो मम भवतु। किंभूतः । अपवों मोक्षः अर्थान्नगर तस्य मार्गः पन्थाः तत्रानुलग्नास्तम नुपस्थिता येऽनभृतो भव्यजनास्तेषां सहायः ॥
પ્લેકાર્થ
જેમ વસંતઋતુ સિવાય વૃક્ષસમૂહ નિષ્ફળ બને છે તેમ શુભભાવ વિના મેં જે કાંઈ વ્રતનિયમને નિષ્ફળ બનાવ્યાં હોય તે મોક્ષમાર્ગે પ્રયાણ કરી રહેલા પથિકને સહાયક એ “શુભભાવ” મને પ્રાપ્ત થાઓ.” ૧૫૧
भुक्तेन येनात्र कदाचिदात्मा न दारुणा वह्निमिवाप तृप्तिम् । शिवंगमीव स्वजनानुषङ्ग कृत्स्नं तमाहारमहं जहामि ॥ १५२॥
अहं तं त्रिजगत्प्रसिद्ध यच्छब्दसंबद्धं च कृत्स्नम् अनशनपानखादिमस्थादिमरूप सर्व जातीय चतुर्विधाहार जहामि । अत्र पानशब्देनापरपानकादि गृह्यते । जलमुत्कलं त्यजामि । क इव । शिवंगमीव । यथा मोक्ष गमिष्यतीत्येव शोलो नीरागः पुमान् सर्वस्वजनानां निजकुटुम्बानामनुषङ्ग निजपरिजनवर्गस्य संबन्ध जहाति । स कः । अत्र जगति संसारे वा येनाहारेण भुक्तेन भक्षितेन कृत्वा कदाचित्कस्मिन्नप्यतीतानागतवर्तमानलक्षणे काले आत्मा जीवस्तृप्ति संतोष नाप न लेभे । क इव । वद्विरिव । यथा दारुणा काष्ठेन् । जातावेकवचनम् । हुताशो न तृप्यति । यदुक्तम् –'नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ' इति ॥
શ્લેકાર્થ
જેમ ઈધણથી અગ્નિ શાંત થાય નહીં તેમ અનંતકાળમાં આહારના પગલેથી મારે આત્મા તમિ પામ્યો નથી, તે જેમ મેક્ષગામી આત્મા સર્વ સ્વજનોના સંગને