SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ८४२ हीरसौभाग्यम् [सर्ग १७ : श्लो० १३६-१३७ जीवान्तिकेनेव वियद्विहारा आलेख्यशेषत्वमवापितास्ते । कैवर्तकेनेव पयश्चरास्ते कथासु शेषत्वमवापिताश्च ॥ १३६ ॥ जीवान्तिकः शाकुनिको विहंगमघातुकः तेनेव वियति आकाशे विहारो विहरण गतिर्येषां ते खचराः । कलविङ्ककुर्कुटशुकसारिकाकाककपिञ्जलचाषखञ्जनशिखण्डिकपोताद्याः पञ्चेन्द्रिया जीवा आलेख्ये चित्रे शेषत्वमवशिष्टतां न तु प्राणेनतामवापिता मारिताः । तथा कैवर्तकेनेव धीवरेणेव पयश्चरा जलचारिणो जीवास्ते पञ्चेन्द्रिया मत्स्यनक्रचक्रपाठीनपीठग्राहमकराद्याः कथासु वार्तासु आख्यानसंबन्धेषु शेषत्वमवशिष्टतामवापिता लम्भिताः । निहता इत्यर्थः । हिंसायां सर्वत्र जन्मान्तरापादनम् । अस्मिन् जन्मनि तु संयतत्वात्तदभाव पवेति तात्पर्यम् ॥ શ્લેકાર્થ હિંસક મનુષ્યની જેમ શુક, સારિકા, મયૂર આદિ ખેચરજીને ચિત્રની જેમ નિપ્રાણ કર્યા હોય તેમજ મસ્ય, નચક્ર આદિ જલચરજીની જન્માંતરમાં પણ હિંસા કરી डाय, ते भाउ पा५ मिथ्या था..' ॥ ११ ॥ अर्हन्निदेशोदितसान्द्रचन्द्रचन्द्रातपोद्वेलकृपापयोधौ । मीनायमानेन मुनीन्दुनेव स्वात्मेव नामानि गणोऽङ्गभाजाम् ॥ १३७ ॥ पुनर्मया अङ्गभाजां प्राणिनां गणः समूहः स्वात्मेव निजजीव इव नामानि न गणितः । इदमपि प्राग्जन्मापेक्षयैव नास्मिञ्जन्म नीति शेषः। तदेव वक्ति-केनेव । मुनीन्दुनेव । यथा वैराग्यरङ्गतरङ्गितात्मना साधुसुधाकरेण अन्यतनूमन्निकरः निजजीवसदृशो गण्यते । किंभूतेन । मुनीन्दुना अर्हतां सर्वतीर्थकृतां निदेश आज्ञा स एवोदित उदयं प्राप्तः सान्द्र. स्नेहलोऽमृतवर्षी आश्विनपूर्णिमासंबन्धी चन्द्रः अखण्डमण्डलेन्दुस्तस्य चन्द्रातपश्चन्द्रिका तेनोवेलो वेलामुल्लङ्घय यात उद्वेल उत्कण्ठितो यः कृपारुपः पयोधिस्तत्र मोनो मत्स्य इवाचरितस्तेन । दयाद्रहृदयेनेत्यर्थः ॥ इति प्रथमव्रते प्राकृतजीवहिंसालोचनम् ॥ શ્લોકાર્થ જિનેશ્વર ભગવંતની આજ્ઞારૂપી શરદપૂર્ણિમાના ચન્દ્રથી ઉત્કંઠિત બનેલા કૃપારૂપી સમુદ્રમાં મલ્યની જેમ આચરણ કરતા અર્થાત દયાદ્રિ હૃદયવાળા મુનીન્દ્રની જેમ
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy