________________
८२४
हीरसौभाग्यम्
[सर्ग १७ : श्लो० १०२-१०३
શ્લેકાર્થ
જાણે પિતાના અનંત સંસારને એકભવરૂપે બનાવવા માટે ઈચ્છતા ન હોય તેમ આચાર્યદેવ જેમાં એક દાણો જ લેવાય તેવી “એકદત્તી” રૂપ ઉગ્રતપશ્ચર્યા કરતા હતા.
|| ૧૦૧ છે.
उपोषणानामपुषत्सहस्रत्रयं स तस्योपरि षट्शतीं च। सरोजजन्मा धरणीधरेन्द्रं सुधाशनानामिव चारुचूलाम् ॥ १०२ ॥ .
. स सरिरुपोषणानामुपवासानां सहस्राणां दशशतीनां त्रयं त्रिक त्रिसहस्रीमपूपुषत् पुष्णाति स्म । चकारेत्यर्थः । च पुनस्तस्य सहस्रत्रयस्य उपरि षट्शतीं षट्शतानि उपवासान् चकार । क इव । सरोज जन्मेव । यथा कम ठभूब्रह्मा सुधाशनानां देवानां धरणीधरेन्द्र मेरु व्यधात् । पुनस्तस्योपरि चार्टी प्रकृष्टां चूलां विधत्ते स्म । यद्यपि धरणीधरेन्द्र इति नाना मेरुरायातस्तथापि धरणीधरेन्द्रो हिमाद्रिरप्युच्यते । तस्यापि नगाधिराजत्वं वर्तते। पर तस्मिन् चूला नास्ति, तन्निरासार्थ सुधाशनानामित्युक्तम् । सुराद्रिर्मेरुरेव नापरः॥
કાથ
જેમ બ્રહ્માએ મેરૂપર્વત બનાવીને તેના ઉપર ચૂલિકા બનાવી તેમ હીરવિજયसू२ि०० मे १ २ ५२ ७ (3६००) पास ४ा ता. ॥ १०२ ॥
एकाशनाचाम्लयुतैर्यतीन्दुरुपोषणैर्निर्गलितान्तरायम् । त्रयोदश व्यातनुते स्म मासाशिक्षामि व स्वीयगुरोस्तपोऽसौ ॥ १०३॥
असौ यतीन्दुः सूरिः स्वीयगुरोः विजयदानसरेः तपोऽनुष्ठान विशेष व्यातनुते स्म निर्ममे । कान् । मासान् । त्रिंशद्वासरान्यावत् । किंभूतान मासान् । त्रयोदश विश्वेदेवप्रमितान् त्रयोदशसंख्याकान् । कथम् । निर्गलितान्तरायं विगतविगतविघ्नम् । कैश्चके | उपोषण रुपवासः । किंभूतैः एकाशनाचाम्लयुतैः प्रथममुपवासः, तत अकाशनकमेकभक्तम्, तत आचामल केवल जलेन रुक्षान्नाशनम्, पुनरुपवासः, अनया रोत्या निर्विघ्नत्रयोदशमासी यावद्विजयदानस्रेस्तपो विदधे । उत्प्रेक्ष्यते-स्वीयगुरोगसेवनाग्रहणादिकां शिक्षामिवातनुते