________________
सर्ग १७ : श्लो० ८५ ८६]
हीरसौभाग्यम्
८१३
સૂરિએ ભક્તોને અતિઆગ્રહ હોવા છતાં તેઓને ઘરનાં આહારપાણી નહીં લેવાનો અભિગ્રહ કર્યો. એ ૮૪ છે
जिनं हृदम्भोजविलासराजहंसायमानं प्रणयन्कदाचित् । विधाय बाह्येन्द्रियमौनमुद्रां ध्यानं स योगीन्द्र इव व्यधत्त ॥ ८५ ॥
स मरिः कदाचित्कस्मिन्नपि समये योगीन्द्रो मनोवचनकाययोगानां निरोधो विद्यते येषाम् । अथ वा यम-नियम-करण-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधि-लक्षणना-मभिरष्टभिरङ्गयोगोऽस्त्येषामिति वा योगिनस्तेषामिन्द्रः सर्वोत्कृष्टयोगिराजस्तद्योगमार्गाधिरूढवद्ध्यान कस्मिन्नपि चेतश्चिन्तिते विषये अकप्रत्ययसंततिकरणं प्रणिधानं व्यधत्त चकार । किं कृत्वा । बाह्यानां स्पर्शन-रसन-घ्राण-नयन-श्रवणाख्यानां पञ्चानामिन्द्रियाणां मौनेन स्वस्वव्यापारनिषेधेन मुद्रां चित्तकाग्रञ्च विधाय । किं कुर्वन् । हृदम्भोजे हदयकमलकणिकायां बिलासे क्रीडाकरणे राजहंस मिवाचरन्तं जिनं वीतरागं प्रणयन कुर्वन् ॥
પ્લેકાર્થ
આચાર્ય મહારાજ, કમલવનમાં ક્રીડા કરતા રાજહંસની જેમ હૃદયકમલમાં જિનેશ્વર ભગવંતનું ધ્યાન કરતા; સ્પર્શ, રસના, વ્રણ, ચક્ષુ અને શ્રોત્ર એ પાંચ ઈદ્રિયોને રોધ કરીને લેગીન્દ્રની જેમ એકાગ્રચિત્તે પરમાત્મધ્યાનમાં લીન બની જતા હતા . ૮૫
नीरन्ध्रपाथःपरिपूर्यमाणपर्जन्यपुञ्जोर्जितगर्जितं किम् । कदापि रुच्यश्वरणेन्दिरायाः स्वाध्यायसान्द्रध्वनितं दधार ॥८६॥
कदापि कस्मिन्नपि अवसरे अस्वाध्यायनिर्मुक्त विकालवे लारहितसमये वा चरणेन्दिरायाश्चारित्र लक्ष्म्या रुच्यो भर्ता । 'विवोढा रमणी भोक्ता रुच्यौ वरयिता धवः' इति हैम्याम । स्वाध्यायस्य पोञ्चैःस्वरेण सिद्धान्तादिगणनरूपस्य सान्द्रं धोरगम्भीर ध्वनितं दधार । अनि विधत्ते स्मेत्यर्थः । 'ध्वनिमाबभार' इत्यपि पाठः। बाढध्वनिना सिद्धान्ताद्यगणयदित्यर्थः । उत्प्रेक्ष्यते- नीरन्ध्र सर्वतोऽपि निर्गतं रन्ध्र छिद्रं रिक्तस्थानं यथा स्यात्तथा पाथोभिः पयोभिः परिपूर्यमाणस्य निर्भरं भ्रियमाणस्य पर्जन्यानां प्रावृषेण्यपयोवाहानां पुजस्य घटाया अजितं प्रोहामं गजितं किं गजिरिव ॥ इत्यभिग्रहध्यानस्वाध्यायादि। ...