________________
सर्ग १४ श्लो० ४५-४६]
हीरसौभाग्यम्
४८३
=
__हे साहे, व्रतिव्रजो मुनिगणो विषयात् शब्द-रूप-गन्ध-रस-स्पर्शलक्षणात्पञ्चप्रमाजागोचरात्पराङमुखी स्यात् विमुखो विरक्तो भवेत् । क इव । निकुञ्जवासीव । यथा वने एष वसनशीलो जन्तु: श्वापदादिविषयाजनपदाद्विमुखः स्यात्कदाचिन्नगरग्रामादिषु नागपछेत् । येन कारणेन क्षमायाः क्षान्तेः क्षमाया उपशमस्य वा धरो धर्ता पुनर्महोदयं मोक्षं गमिष्यति यास्यतीत्येवंशीलः साधुस्तदेकभूमिषु तेषां पञ्चानामपि विषयाणामेका अद्वैता भमयो वासवेश्मानि । नहि वाणिनीं विना विषयाः सुखाय स्यः। तादृशीषु वशासु स्त्रीष न अनुरज्यते अनुरक्तीभवति । कास्विव । अनीतिष्विव । यथा क्षमाधरो युवराजपदीं प्रापितः सर्पराज्यधुरंधरः पुनर्महान्त सर्वातिशायिनमुदय राज्यैश्वर्यं गमिष्यति लप्स्यते इत्येवंशीलः । अथ वा क्षमाधरो जनकेन निजनिजराज्ये स्थापितः । पुनर्महान्त सार्वभौमतादिलक्षणमुदयमाधिपत्यप्राप्स्यते इत्येवंशीलः । तादृशः कः । अनीतिष्वन्यायेषु अनुरागधान भवेत् । उदयाभिलाषी सर्वोऽपि न्यायेष्वेवानुरज्यते । यदुनम्-'न निमित्तद्विषां क्षेमं नायुर्वैद्यकवि द्विषाम् । न श्रीनीतिद्विषामेतत्रयं धर्मद्विषां नहि ॥' इति ॥
શ્લોકથી
ચિથા વ્રતમાં–વનવાસી છે શિકારી પશુઓથી જેમ દૂર રહે છે તેમ સાધુઓ શબ્દ, રૂપ, રસ, ગંધ અને સ્પર્શ એ પાંચ વિષયોથી પરાહમુખ રહે છે. અને ન્યાયપ્રિય રાજા જેમ અનીતિમાં રક્ત નથી તેમ ક્ષમાશીલ અને મોક્ષાભિલાષી સાધુ પાંચેય વિષયેના સ્થાનરૂપ સ્ત્રીઓમાં આસક્ત હતા નથી. (કહ્યું છે-તિષના દ્વેષીને કુશળ નથી. ઔષધના દ્વેષીને જીવિત નથી, નીતિના દ્વેષીને લક્ષ્મી નથી અને ધર્મના પીને ત્રણમાંથી કંઈપણ નથી.) ૪૫
यतः स शूरः सुदृशां भ्रुवं धनुः कटाक्षबाणान्कवरीकृपाणभृत् । नितम्बचक्रं भुजपाशमुत्कटं पुनर्वहन्येन जितः स्मरप्रभुः ॥४६॥
है मुद्गलेन्द्र, स एव पुमान् शूरः सुभटः । कथ्यते इति शेषः । येन पुंसा स्मर एव प्रभुः त्रिजगजेतृत्वात्समर्थो राजा इन्द्रनागेन्द्रनरेन्द्राणामपि स्वसेवकीकरणाद्राजा जितो घशीकृतो हतो वा । किं कुर्वन् । सुदृशां चारुलोचनानां ध्रुवमेव धनुः कोदण्डम्, पुनः' कटाक्षानपाङ्गदर्शनान्यक्षिविकूणितानि एव बाणान्नाराचान, पुननितम्बमारोहं श्रीकटीपश्वात्प्रदेशम् । येन कृत्वा नितम्बिनीत्यभिधानेन प्रसिद्धा । तदेव चक्रं रथाङ्गायुधम् । पुनरुत्कटं केनापि छेत्तुमशक्यं भुजौ बाहू एव पाश द्विषन्धनार्थ वज्ररज्जुमयग्रन्थि वहन धारयन् । किंभूतः । कबरी वेणीमेव कृपाणं चन्द्रहासं बिभर्तीति भृत् । प्रभुः सकलसुरापुरोगनरनायकनिर्जयेन सामर्थ्यवानिति साभिप्रायं प्रभुरिति पदम् ।।