________________
सर्ग १७ श्लो० १-२ ]
हीरसौभाग्यम्
सप्तदशः सर्गः ।
अथ व्रतीन्द्रोऽभ्युदयं दधाने बिम्बे नभस्यम्बुजबान्धवस्य । मूर्ध्ना धृते पूर्वदिशेव भद्रकुम्भे स नाभेय जिनं ननाम ॥ १ ॥
अथ शत्रुंजये यात्रां कृत्वा कतिचिद्दिनान्यधित्यकायामेव स्थितेरनन्तरं सोऽकम्बरसाहिमाननीय व्रतीन्द्रो हीरविजयसूरिः कदाचित्कस्मिन्नपि दिवसे गिरेरुत्तितीर्षुः नाभेयजिन श्रीऋषभतीर्थनाथं ननाम प्रणमति स्म । कस्मिन् सति । नभसि गगनमण्डले . अम्बुजबान्धवस्य सूर्यस्य बिम्बे मण्डले अभ्युदय संमुखाद्गमन' दधाने बिभ्राणे सति । प्रातःकाले सूर्येऽभ्युदिते सतीत्यर्थः । उत्प्रेक्ष्यते - पूर्वदिशा प्राचीहरिता स्वमस्तकेन कृत्वा धृते अधिरोपिते भद्रकुम्भे मङ्गलकलशे इव ॥
શ્લેાકા
७६७
ત્યાર પછી ગગનમાં સૂર્યોદય થતાં હીરવિજયસૂરિજીએ યુગાદિદેવને નમસ્કાર કર્યો, જાણે પૂર્વ દિશાએ પેાતાના મસ્તકે મંગલકલશ ધારણ કર્યા ન હોય ! તેવા સૂય લાગતા हता ॥ १ ॥
अन्याननन्यां मुदमादधानः
पुनर्व्यनंसीत्स जिनावनीन्द्रान् । शत्रुंजयाद्रेवि भूषणेषु शेषेषु चैत्येषु हिरण्मयेषु ॥ २ ॥
पुनरित्यपरार्थे । यथा ऋषभदेव प्रणतवांस्तथैव अन्यानपरानपि जिनावनीन्द्रानद्वारकान् स सूरियनंसीत् विशेषेण नमस्यति स्म । स किं कुर्वाणः । अनन्यां न विद्यते अन्या अधिका अपरा अस्याः सकाशादित्यनन्यामसाधारणीं मुदं प्रीतिं प्रह्लादमादधानः कुर्वाणः । अथवा आ सामस्त्येन मनोवाक्कायैर्दधानो बिभ्राणः । क्वचिश्च कुमारसंभवादिषु धरणार्थेऽप्यादधान इति दृश्यते । केषु । जिनराजान् व्यनंसीत् । शेषेषु । मूलचेत्यव्यतिरिक्तावशिष्टेषु चैत्येषु प्रासादेषु । किंभूतेषु चैत्येषु । हिरण्मयेषु काञ्चनरचितेषु । उत्प्रेक्ष्यतेशत्रुंजयाद्रेर्विमलाचलस्य भूषणेष्विव सुवर्णवर्णाभरणेष्विव ॥