________________
Ramansaninimumourcean
A masor
७५८
हीरसौभाग्यम्
[सर्ग १६ श्लो० १३०-१३१
ગુણસુંદરીના પતિ મહીપાળરાજાને કુરેગ જેમ દૂર થયે હતું તેમ પ્રાણીઓના અઢાર જાતિના કઢરોગ આદિ મહારગે દૂર કરવામાં સમર્થ એ સૂરજકુંડ શેભે છે. ૧૨
पुण्डरीकाचलोवींव महिमैकनिकेतनम् । राजादनी विभात्येषा मुषिताशेषकल्मषा ॥ १३० ॥
एषा प्रत्यक्षलक्ष्या राजादनी क्षारिका 'रायणि' इति प्रसिद्धा विभाति । किंभूता। मुषितानि मूलादुच्छिन्नानि अशेषाणि समस्तानि कल्मषाणि पापानि यया। पुनः किंभूता । महिनां माहात्म्यानामेकमद्वैत निकेतनम् । केव । पुण्डरीकाचलस्य शत्रुजयाद्रेर्वी भूमीव ॥
લેકાર્થ
વિમલાચલની ભૂમિથી જેમ સમસ્ત પાપ દૂર થાય છે તેમ સર્વ પાપને દૂર કરનારી મહામહિમાવંત “રાયણ” શોભે છે. ૧૩૦ છે
ऐहिकामुष्मिकानल्पसंकल्पितान्यङ्गभाजां
सृजन्ती त्रिलोकीमुवाम् । वेधसा स्वर्गिणां गौरपूर्वव या
निर्मिता राजते यत्र राजादनी ॥ १३१ ॥
यत्र शत्रुजये राजादनी राजते । उत्प्रेक्ष्यते-या राजादनी वैधसा सृष्टिकर्ता अपूर्वाभ्याभ्यः कामधेनुभ्यो लक्षणैरसाधारणा गौधनुः कामदुघा निर्मिता निष्पादिता। किं कुर्वती। त्रिलोकीभुषां जगत्रितयजन्मनां अङ्गभाजां देहभाजां सुरासुरनराणां प्राणिनामहिकानि इहलोकभवानि रोगापनयनसंपत्करणादिमानि आमुष्पिकाणि परलोकभवानि स्वर्गापवर्गादिकानि यान्यनल्पानि भूयांसि । समस्तानीत्यर्थः । संकल्पितानि मनःकामितानि । मनोरथानित्यर्थः। सृजन्ती कुर्वन्ती। संपूरयन्तीत्यर्थः ।
શ્લેકાર્થ
શત્રુજ્ય ઉપર રાયણવૃક્ષ શેલે છે, તે જાણે બ્રહ્માએ ત્રણે લેકનાં પ્રાણીઓના ઈહલૌકિક અને પારલૌકિક અસંખ્ય મનોરથ પૂર્ણ કરવા માટે કેઈ અપૂર્વ કામધેનુની નિષ્પત્તિ सनीय! ।। १३१॥