SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ७४८ ७४८ होरसौभाग्यम् होरसौभाग्यम् [सर्ग १६ श्लो० ११६ सर्ग १६ श्लो० ११६ अथ दीक्षादानानन्तरं पुण्डरीकनामा ऋषभदेवप्रथमभृत्तन्मूते रन्तिके समीपे तद्देवकु. लिकामागत्य तत्पाचे एव स्थास्नुस्तिष्ठतीति एवंशील एतावता मूलप्रासादद्वारादुत्थाय पुण्डरीकमूते: पार्श्वे आगत्योपविष्ट इत्यर्थः । तादृशो वशी जितेन्द्रियः सूरिविशो याचिकलोकानुद्दिश्य श्रीशत्रुजयमाहात्म्यं विमलाचलमहिमानमभाषत कथयति स्म । किंवत् । वृषाङ्कवत् । यथा ऋषभदेवः पूर्व सिद्धशैलमाहात्म्यं भाषते स्म । કાર્થ ત્યાર પછી આચાર્યદેવ ત્યાંથી ઊઠીને પુંડરિક સ્વામીની પાસે આવીને બેઠા અને ત્યાં ત્રષભદેવ સ્વામીની જેમ યાત્રિકોને ઉદ્દેશીને શત્રુ જયનું માહાસ્ય વર્ણવ્યું. જે ૧૧૫ .... यत्तीर्थेऽन्यत्र शुद्धाध्यवसितिविशदध्यानतः पूर्वकोटया प्राणी बध्नाति पुण्यं भवति भवभृतां तत्क्षणेनाप्यमुष्मिन् भेतव्यं पातकेभ्यो भुवि न भविजनैर्भेद्यनिर्भेददक्षे क्ष्माभृत्यस्मि शरण्ये पुनरहिमरुचीवान्धकारोत्करेभ्यः॥ ११६॥ अन्यत्र अपरस्मिस्तीथे शुद्धा निष्पापा या अध्यवसितिरध्यवसायः शुभपरिणाम स्तेन कृत्वा यद्विशदं शुल्कध्यानं तस्मात्सप्ततिवर्षकोटिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षमानपूर्वाणां कोट्या शतलक्षैः कृत्वा यत्पुण्यं शुभकर्म प्राणी बध्नाति जन्तुरुपाजयति तत्पुण्यं तावत्प्रमाणं सुकृतममुष्मिन् शत्रुजये तत्क्षणात्स एव क्षणस्तत्क्षणस्तस्मात् । तत्काल पवेत्यर्थः । अष्टादशनिमेषैरेका काष्ठा, द्वाभ्यां काष्टाभ्यामेको लवः, पञ्चदशभिलवरेका कला. द्वाभ्यां कलाभ्यामेको लेशः, पञ्चदशभिर्लेशैरेकः क्षणः, षइभिः क्षणैरेका घटिका, द्वाभ्यां घटिकाभ्यां मुहूर्तम्, इत्यादिकालमानम् । भवभूतां भविनां भवनि जायते । पुनर्भुवि पृथिव्यां शरणागतवज्रपञ्जरे अस्मिन् शत्रुजयनाम्नि पर्वते पृथ्वीपतौ च सति भविजनैविकलोकैरनन्तदुःखदातृत्वाद्वैरिभूतेभ्यः पातकेभ्यः कथंचित्प्रमादात्पापानि कृत्वा न नैव भेतव्यं न भयमानेयम् । किंभूते । भेद्यानि भेनु योग्यानि दुःकर्माणि तेषां निभेदे घातने निवारणे दक्षे निपुणे । यदुक्तं शत्रुजयमारात्म्ये – 'न भेतव्य पातकेभ्यः प्रमादिभिः । श्रूयतामेकवेल श्रीसिद्धक्षेत्रकथानकम् ॥'कस्मि निव । अहिमरुचीव । यथा अभ्युदिते सहस्रकिरणे अन्धकाराणां ध्वान्तानां भय नानीयते । हिमादन्या अहिमा उष्णा रुचः किरणा यस्य । यदुक्तं माघे'उदयमहिमरश्मिर्याति शीतांशुरस्तं कुमुवनमपश्रि श्रीमदम्भोजखण्डम् । त्यजति मदमुलूकः प्रीतिमांश्चक्रवाको हतविधिललितानां ही दुरन्तो विपाकः॥'
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy