SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सर्ग १६ श्लो० १०७-१०८] हीरसौभाग्यम् ७४३ जय प्रशमयन्मनोभवभटं महाबोधिव कुदृक्कमलकाननोनमदकाण्डचण्डाम्बुदः । सलीलदलिताखिलप्रबलदोषदोषातम:स्फुरद्विमलकेवलाम्बुरुहबन्धुबिम्बोदयः ॥ १०७ ॥ हे नाभेय देव, त्वौं जय चिरकालं जीयाः किं कुर्वन् । प्रशमयन्निघ्नन । 'प्रोजासनं प्रशमन प्रतिघातनं वधः' इति हैम्याम् । तथा 'वत्स्यति शमयति च दमयति च' इति क्रियाकलापे हिंसाथै । कम् । मनोभवः कंदर्पः स एव भटः वीरस्तम्। किंवत् । महाबोधिवत् । यथा बुद्धः स्मरशूरं प्रशमयामास । 'बोधिसत्वा महाबोधः, तथा 'मारलीकरवजित इति हैम्याम् । द्विकमपि । पुनः किंभूतः । कुदृशः कुपाक्षिकाः अन्यदर्शनिन एव कमलकान नानि पनवनखण्डानि तेषु उन्नमन साडम्बरीभवन जलभरेण भवन् वा महीं स्पृशन्वा अकाण्डे अप्रस्तावे प्रावृष विनैव चण्डः कठिनः मुशलप्रमाणजलधारावर्षी अम्बुदो मेघः। 'बालातपमिवानानामकालजलदोदयः' इति रघौ। 'निद्राणपङ्कजधरसि जलदानेहसि' इति चम्पकथायाम् । पुनः किंभूतः। सलील लीलासहित यथा स्यात्तथा प्रयास विनव दलितानि विध्वस्तानि चूर्णीकृतानि अखिलानि समस्तान्यपि प्रबन्धप्रसवानि अष्टादशसंख्याकाः प्रबला अनुकूलबलत्वात्परैमोहमूढतया कातरीभूतैरन्यमतुमशक्या दोषा दानान्तराय-लाभान्तरायवीर्यान्तराय-भोगान्तराय - उपभोगान्तराय-हास्य-रतिअरति-भय-जुगुप्सा-शोक-काममिथ्यात्व-अज्ञान-निद्रा-अविरति-राग-द्वेषरूपा अपगुणा एव दोथातमांसि निशान्धकाराणि तैः कृत्वा स्फुरन्दीप्यमानो विमलो हिमाम्बुदापगमाद्विशदः केवलमनन्यापेक्ष लोकालोकप्रकाशकारकमनुत्तरं पश्चमज्ञानं तदेवाम्बुरुहबन्धोः कमलम्रहदो दिनकरस्य बिम्बोदयः प्रादुर्भावो यस्य ॥ શ્લેકાર્થ બુદ્ધની જેમ કામદેવને શમાવનારા, કુદષ્ટિ રૂપી કમલવનનો નાશ કરવામાં પ્રચંડ મેઘની વર્ષા સમાન, સમસ્ત દેરૂપી રાત્રિના અંધકારને લીલા-માત્રમાં નાશ કરી નાખનારા અને તેથી જ્ઞાનરૂપી સૂર્યને જેમને ઉદય થયો છે તેવા, હે ભગવંત, આપ જ્યવંતા पतो. ॥१०७ ॥ . जयामृतविभूतिभाग्यन इवातिधीरध्वनि निरञ्जनतयोदितो जलजवद्विशुद्धाशयः । सुधारस इव प्रभो सकलजन्तुजीवातुको भवाद्भवभृतोऽम्बुधेर्जगति पोतवत्तारयन् ॥१०८॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy