SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सर्ग १६ श्लो १०५] हीरसौभाग्यम् ७४१ हे प्रभो स्वामिन, हे उल्लसितमावरणापगमात्प्रकटीभाव प्राप्त यत्केवलं लोकालोकप्रकाशनप्रगुणपश्चमज्ञानम् । 'केवल त्वेककृत्स्नयो। निर्णीते कुहने ज्ञाने' इत्यनेकार्थः। तदेवामलतमः अतिशयेन विशुद्धो य आत्मदर्शी दर्पणस्तस्योदरे मध्ये अनुबिम्बिता प्रति. बिम्बयुक्ता जाताः संक्रान्ता नागलोकस्वकिभूलोकानां त्रयस्याखिलाः समस्ताः पदार्था यावद्वस्तुनि तेषां सार्थाः समूहा यस्य तस्य संबोधने त्वं जय । हे समालिन्ति सम्यकप्रकारेण कृताश्लेषक, या त्रिभूवने त्रैलोक्येऽपि अम्दताश्चर्यकारिणी अतिशयरूपा स्वाभा विका आजन्मजाताश्चत्वारस्तथा कर्मणां घाताजाता एकादश तथा देवनिर्मिता एकोनविंशतिः एवं चतुस्त्रिंशत्तदतिशयरूपा पद्मिनीसद्मा यावासा लक्ष्मीः। पद्मिन्यां कमले सम गृहं यस्याः सा । एतावत।। 'श्रीहरिप्रिया। पनवासा' इति हैम्याम् । तथा 'पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च' इत्यनेकार्थः । तया। किंवत् । विटपिवत् । यथा विटपी पादपः विनिद्रया विकसितया वनवीरुधा विपिनचल्लया समालिङ्गचते ॥ લેકાર્થ જેમના કૈવલ્યજ્ઞાનરૂપી નિર્મલ આરિસામાં ત્રણે જગતના પદાર્થોને સમૂહ પ્રતિબિંબિત થયા છે, એવા હે ભગવંત, આપ જયવંતા વર્તો. જેમ નવપલ્લવિત લતાઓ વડે વૃક્ષ શેભે તેમ જન્મજાત ચાર, ઘાતિકર્મના ક્ષયથી અગિયાર, અને દેવકૃત એગણીશ એમ ત્રણે જગતને આશ્ચર્યકારી ચેત્રીશ અતિશયરૂપી લક્ષ્મી વડે સુશોભિત એવા હે ભગવંત, આપ જયવંતા વર્તે ૧૪ जय प्रकटयन्पथो रविरिवाथ मनंस्तमः ___ कुदृग्भिरिव कौशिकैर्जगति दुनिरीक्ष्यः पुनः । गजेन्द्र इव वज्रिणः स्फुरदखण्डशौण्डीरिमा मृगारिरिव निर्भयः परिभवन्करङ्गान्पुनः। ॥ १०५ ॥ हे ऋषभ, त्वं चिरंजय । किं कुर्वन् त्वम् । प्रकटयन । कान । पथो मार्गान् । धर्मकर्मः संबन्धिनः स्वर्गापवर्गनरकादिकान्वा । क इव । रविरिव भास्वानिव । यथा भास्करः पथो भुवो मार्गान प्रक्राशयति स्पष्टान् दर्शयति । अथ पुनः रविरिव तमोऽज्ञान पाप वा ध्वान्तं च मनन्निर्दलयन् । पुनः रविरिव कोशिककैरिव जगति विश्वे कुदृग्भिः कुपाक्षिकैः दुःखेन कष्टेन निरीक्षितुं द्रष्टुं शक्यः। पुनर्वनिणो वासवस्य गजेन्द्र इव ऐरावण इव । स्फुरन् स्फूर्ति प्राप्नुवन् अखण्डः परैः सुरासुरनरैरप्रतिहतः शौण्डीरीमा पराक्रमो यस्य । पुनर्मगा। रिरिव निर्भयो देवमनुजतियकृतोपसर्गपरिषहादिभ्यो भीतिरहितः । पुनः कुरङ्गः कुमतकुदर्शन मिथ्यात्वादिषु रंङ्गा रागो वासना येषां तान् । 'रङ्गः स्यान्दृत्तयुम्दवोः। रागे' इत्यनेकार्थः। मृगांश्च परिभवन्मश्नत् ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy