SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ७०० हीरसौभाग्यम् [सर्ग १६ श्लो० ४३-४४ • यदीक्षणजितो मृगः श्रित इबाङ्ककायः क्रम ____ मृगध्वजजिनं ततः प्रमुदितः स तं नेमिवान् । जिनेन्द्रमजितं पुनर्नजितमान्तरै रिभिः कदाचिदपि पद्मिनीप्रियतमस्तमित्रैरिव ॥ ४३ ॥ स सूरिस्ततो मरुदेवीनमस्कृतेरनन्तरं तं शान्तिकारकत्वेन सर्वत्रापि प्रसिद्ध मृगो हरिणो ध्वज श्चिह्न यस्य तादृशं जिनं षोडशतीर्थनाथं श्रीशान्तिनाथ नेमिवान् प्रणमति स्म । अयं क्वसोः प्रत्ययस्य प्रयोगः । स च णबादिवत् ज्ञेयः । किंभूतः सूरिः। प्रमुदितो दृष्टमानसः। यत्तदोनित्यसंबन्धात यस्य श्रीशान्तिनाथस्य क्रम चरण मृगः सारङ्गः श्रितः समेत्य सेवते स्म । उत्प्रेक्ष्यते-यदीक्षणाभ्यां यस्य नयनाभ्यां जितः श्रिया पराभूत इव अङ्कोऽभिज्ञान मेव कायो वपुर्यस्य तादृशः सन् श्रित इव । पुनरपर विहारे अजितं द्वितीयं जिनेन्द्रं परमेष्ठिन नेमिवान् प्रण नाम । किंभूतम् । नेति निषेधे । जितं पराभूतं न जित मजितम् । कैः । आन्तरैरन्तरङ्गः कर्माद्यैर्भाववैरिभिः । कथम् । कदाचिदपि कस्मिन्नपि काले प्रस्तावे । कैरिव । तमिश्रेरिव । यथा अन्धकारैः कदाचिदपि पद्मिनीप्रियतमो भानुमान्न जीयते ॥ કાર્થ ત્યારપછી અત્યંત આનંદિત બનેલા આચાર્યદેવે શ્રી શાંતિનાથ ભગવાનના દર્શન કર્યા, જે પ્રભુના નેત્રોથી પરાભવ પામેલા મૃગ ભગવાનના ચરણમ લાંછનરૂપે રહીને જાણે હંમેશા પ્રભુની સેવા કરતે ન હોય! ત્યાર પછી આચાર્યદેવે અંતરંગ શત્રુઓથી નહીં છતાયેલા એવા અજિતનાથ ભગવાનનાં દર્શન કર્યા; શું અંધકારને સમૂહ સૂર્યને ક્યારે પણ પરાભવ કરી શકે ખરો ! અર્થાત્ અંતરંગ શત્રુઓ ક્યારે પણ વિતરાગ ભગવંતાને પરાભવ કરી શકતા નથી. જે ૪૩ છે स सिद्धगृहवजिनं प्रणमति स्म पृथ्वीधर प्रणीतजिनमन्दिरे मुनिपुरंदरः संमदात् । प्रधान इव पर्षदं क्षितिपतिं स छीपाभिधां समेत्य वसतिं पुनर्जिनसुधांशुमाराधयत् ॥ ४४ ॥ शत्रुजयोज यन्तादितीर्थानां करमोचयिता मुनीनां तपागच्छश्रमणानां पुरंदरः अति. शायिलक्ष्मीवत्त्वेन वासवसदृशः सूरि: संमदादानन्दात् पृथ्वीधराभिधेन मण्डपाचलपातिमाहिमन्त्रिणा पेथडदेसाधना निर्मापिते जिनमन्दिरे प्रासादे जिनं भगवन्तं प्रणमति
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy