SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सर्ग १५ श्लो० ५२-५३ ] सौभाग्यम् ६५३ कुञ्जा नन्दनवनरूपा देवारामास्तैः । पुनः कैः । सिद्धानां देवविशेषाणां गानरसिकाणां सौधैर्गृहैः सिद्धायतनैश्च ॥ શ્લેાકાથ છિદ્ર વિનાનાં રત્નેના શિખરે વડે, અનેક પ્રકારના કલ્પવૃક્ષા વડે યાત્રાર્થે આવેલા ધ્રુવયુગલા વડે, સુવણની શેાભા વડે વિવિધ પ્રકારના ઉદ્યોગેા વડે તેમજ સિદ્ધાયતના (દેવમ દિશ) વડે શત્રુ જયપવ ત, ભરતક્ષેત્રનાં મનુષ્યેાની મેરૂપર્યંત જોવાની ઉત્કંઠાને शिथिल ४२तो हतेो ॥ ५१ ॥ क्वचन करटियाना मेखलाशालमानाः कनककटकभाजो वारिमुक्केशपाशाः । विविधमणिविभूषाः पद्मिनी नालबाहा विकचकुसुमनेत्रा बिम्बदन्तच्छदाश्च ।। ५२ ।। बहलमलयजन्मामोदिता मञ्जुपादा गुरुतरकुचकुटाः स्फारमुक्तावलीकाः । मदपटुपिकवाचश्चम्पकश्रेणिगौरा युवतय इव यस्मिन्भूमयो विस्फुरन्ति ।। ५३ ।। यस्मिन श्री शत्रुंजये युवतयस्तरुण्यः स्त्रिय इव भूमयः पृथिव्यः क्वचन क्वापि प्रदेशे विस्फुरन्ति दीप्यन्ते । भूमयो युवतयश्च किंभूताः । क्वचन कुत्रापि स्थाने करटिनां गलदानजलगजानामित्र च यानं गमनं स्वेच्छया परिभ्रमणं लीलामन्थरगतिश्च यासु यास वा । पुनः किंभूताः । मेखलया गिरिमध्यभागेन स्वर्णमणिवेचितकाञ्च्या च कृत्वा शालमानाः शोभमानाः । पुनः किंभूताः । कनकस्य स्वर्णमयं काञ्चनखनीयुक्तं वा कटके कमपि मध्य प्रदेशविशेषं हेमवलयं च भजन्तीति । पुनः किंभूताः । वारिमुचा शिखरोपरिसंचरजलदेन कृत्वा मेघवच्च केशपाशः कुन्तलहस्तो यासाम् । पुनः किंभूताः । विविधानामनेकप्रकाराणां मणीनां कर्केतनचन्द्रकान्तादीनां रत्नानां विभूषाः शोभा विशिष्टा भूषा अलंकारा यासु वा यासाम् । पुनः किंभूताः । पद्मिनीनां कमलानां नालानि मृणालान्येव तत्तुल्या बाहा भुजा यासाम् । 'पद्मिनी कमलिन्यां कमले प्रधानस्त्रियां च' इत्यनेकार्थः । पुनः किंभूताः । fararनि विकसितानि कुसुमान्येव कुसुमतुल्यानि वा मेत्राणि नयमानि यासाम् । पुनः किंभूताः । बिम्बानि पक्वगोल्हकानि एव तद्वद्वा दन्तच्छदा अधरा यासाम् । पुनः किंभूताः । बहलाः सान्द्राः दृढा वा ये मलयजन्मानः श्रीखण्डतरवः तेषामामोदाः परिमलाः संजाता आसु | पक्षे सान्द्रवदन विलेपनेन सुगन्धीभृताः प्रमोदकलिता वा जाताः । आमादः परिमलः प्रमोदश्च । पुनः किंभूताः । मञ्जवेा मनेाज्ञाः पादाः पर्यन्तपर्वताः खीयाग्यलक्षणेपेताश्चरणाश्च
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy