________________
सर्ग १५ श्लो० ४८-४९]
हीरसौभाग्यम्
६५१
लीभूय स्थितास्तथा पीना यथेच्छाहाराप्राप्त्या पुष्टास्तथा ध्वनन्तः शब्दायमाना गुञ्जारवो जितास्तथा अनयनपेया कर्णिकासु प्रविष्टत्वेन लोचनाभ्यां पातुं योग्याः। अश्या इत्यर्थः । तथा अमेयाः प्रमाणातीता ये रोलम्बास्तेषां रावो गुमगुमायमानध्वनिर्यस्मिन् सः । क इव । कविरिव । यथा धाता चकास्ति । किंभूतः । कृतो निर्मितो वेदानामृक्सामय. जुषामथर्वणानामुद्गार उद्गिरणमुच्चारो येन हंसे सितच्छदे अधिरूढः अध्याश्रितः राज. मरालपृष्टस्थायुकः ॥
કાર્થ શત્રુંજય પર્વતના ચાંદીના શિખર ઉપર રહેલું ચંપકવૃક્ષ શેભે છે. રાજહંસ ઉપર આરૂઢ થયેલા વેદોચ્ચાર કરતા બ્રહ્માની જેમ, વિકસ્વર પુષ્પોની કણિકામાં રસપાન કરવામાં લેપી બનેલા અસંખ્ય બ્રમરોના ગુંજારવનો ધ્વનિ ચંપકવૃક્ષમાં થઈ રહ્યો છે. | ૪૮
स्वकशिखरसरःस्थां भृङ्गरङ्गत्कटाक्षां
विदलितदलनेत्रीं रागमन्तर्दधानाम् । परमसुहृदिवादिः पद्मनी यो विविक्ते
समगमयदभीशुस्वामिना कामिनेव ॥ ४९ ॥ योऽद्रिः शत्रुजयगिरिः परमः सर्वोत्कृष्टः सुहृदिव मित्रमिव पद्मिनी पद्मपरिमा कामिनी कमलिनी च कामिना कामुकेनेव अभीशुस्वामिना ज्योति:पातिना भानुना सम विविक्ते विजने एकान्ते समगमयत्संगमं कारयति स्म । किंभूतां पद्मिनीम् । स्वकस्य शैलसंबन्धिनः शिखरं शृङ्ग निजं वा कूटं तत्र यत्सरः पद्माकरस्तत्र तिष्ठतीति तादृशीम् । 'शिरःस्थाम्' इति पाठे शृङ्गमस्तके जलार्द्रप्रदेशे स्थायिनीम् । स्थलेऽपि पद्मिन्याः संभवो दृश्यते । यथा नैषधे–'ददर्श दूनः स्थलपद्मिनी नलः' इति । तथा चम्पकथायामपि 'उत्फलस्थलपद्माभभवच्चरणभूषिता' इति । पुनः किंभूताम् । भृङ्गा भ्रमरा एव मधकरैः क्रत्या रङ्गन्तः पतिं सूर्य तिर्यसर्पन्तः कटाक्षा अक्षिविकूणितानि यस्याः सा । पुनः किंभूताम् । विदलितानि दलानि पत्राण्येव नेत्रे नयने यस्याः। पुनः किं कुर्वाणाम् । अन्तर्मध्ये पानसे च रागं रक्तिमानमनुरति स्नेह च दधानां बिभ्राणाम् ॥
RAIN શત્રુંજય પર્વત પરમમૈત્રીભાવથી તિપતિ કામુક સૂર્યને પિતાના શિખરના સરોવરમાં રહેલી, પત્રરૂપ નેત્રોને ધારણ કરતી, ભ્રમરરૂપ કટાક્ષોને ફેંકતી તેમજ અંતરમાં રક્તતા (રાગ)ને ધારણ કરતી પદ્મિનીની સાથે જાણે એકાંતમાં સંગમ કરાવતે नडाय ! ।। ४ ।।