________________
सर्ग १५ श्लो० ५-६]
हीरसौभाग्यम्
६२३
- येन शत्रुजयगिरिणा विजितः पराभूतः सन् । उत्प्रेक्ष्यते-मेरुः सुवर्णाचलो ब्रीडया लजया कृत्वा न अक्ष्णोनयनयोर्लक्ष्यो निरीक्षितुं योग्योऽनक्षिलक्ष्योऽदृश्यो बभूव जायते स्म । क इव । येन । किंभूतेन । त्रिजगतां त्रयाणां पातालभूमिस्वर्गलक्षणानां भुवनानामु. परिभूमी लोकाग्रवर्तिस्थानं मुक्तिलक्षण लभ्भयति प्रापयति इत्येवंशीलस्तेन । 'सर्वेषामपि शैलानामुन्नतो विमाचलः । यदारोहेण लोकाग्रं प्राप्यते बालकैरपि ॥ इति पूर्वाचार्यस्तुतिवचनात् । विजितः। कैः कृत्वा। न मीयन्ते प्रमाणी क्रियन्ते स्वबुद्धया विदग्धेरपीत्यमितानि । गणनातीतानीत्यर्थः । रजतानां रूप्यरत्नानां विविधमणीनां स्वर्णानां काञ्चनानां शृङ्गाणि शिखराणि तैः पुनर्न विद्यते संख्या गणना मानं येषां तान्यसंख्यानि अनिमिषाणां देवानां शिखरिणां वृक्षाणां खण्डानि काननानि तैः । 'स्यात्खण्डं काननं वनम्' इति हैम्याम् । पुनः स्वःतदां सुराणां सद्मभिनगरैर्मन्दिरैश्च । 'गौस्त्रिदिवमूर्धलेोकः सुरालयः' इति हैम्याम् । मेरुस्तु स्वप्रमाणोच्चप्रदेशे प्रापयति नोपरितनविभागे। तथा मितान्येव शृङ्गाणि बिभर्ति तान्यपि रत्नानामेव रत्नसानुत्वात् । तथा भद्रसालनन्दनसौमनसपाडुकनामानि चत्वार्येव वनानि धत्ते । तथा एकमेव सुरगृहं कलयति । यदुक्तम्-'दिवमङ्कादमराद्रिरागताम्' इति नैषधे । अधः शत्रुजयाद्रिणा स्वाभ्यधिकवैभवेन मेरुनिर्जितस्तद्युक्तमेव ।।
શ્લેકાર્થ
અગણ્ય રૂપા, સોના અને રત્નોનાં શિખરો વડે, અસંખ્ય કલ્પવૃક્ષોના વનખંડ વડે, દેવોનાં મંદિરે વડે અને ત્રણ જગતના મસ્તક ઉપર રહેલી મુક્તિને આપવા વડે સર્વોકૃષ્ટતાને ધારણ કરતા શત્રુંજય પર્વત દ્વારા પરાભવ પામેલે મેરૂપર્વત (એક શિખર, ભદ્રશાલ, સૌમનસ, નંદન અને પુંડરિક આ ચાર જ વનખંડવાળે અને એક જ દેવમંદિરવાળે મેરૂપર્વત) લજજાથી જ જાણે અદશ્ય બની ગયે ન હોય! છે ૫ છે
शिखरिमणिविनिर्यज्ज्योतिरुज्जम्भमाणा
जनविपिनविनीले व्याम्नि यस्यावभासे। अतुलचटुलभावं स्वं परित्यज्य नित्यं
तडिदिव निवसन्ती वल्लभाम्भोधराङके ॥६॥ उज्ज़म्भमाणा पुष्पपल्लवादिभिर्विकसितभावं भजन्ते येऽञ्जनाः अञ्जननामानो वृक्षवि. शेषाः । 'केचित्प्रभञ्जना इव पापर्धिकजनाः खण्डिताजनाधरप्रवालाः' इति चम्पूकथायाम् । 'अञ्जना सुन्दरी पत्नी अञ्जनद्रुमश्च । अधरोष्ठपल्लवः अधस्तनकिसलय च' इति तद्वत्तिः। तेषां विपिनानि तद्वद्विनीले अतिश्यामले व्योनि नभस्तले यस्य शत्रुजयाद्रेः शिखराणामुत्तुङ्गश्रुङ्गाणां मणिभ्यो रक्तपीतरत्नेभ्यो विनिर्यन्निःसरदशदिगङ्गणान व्याप्नुवः ज्ज्योतिः कान्तिराबभासे शोभते स्म । उत्प्रेक्ष्यते-स्वमात्मीयमतुलमतिशयितमतिघनं चटुलभाव चापलं परित्यज्य विहाय वल्लभस्य स्वभर्तुः अम्भोधरस्य प्रावृषेण्यपयोदस्य