SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० ३०५-३०६ ] हीरसौभाग्यम् व्रतिक्ष्मापतेः हीरविजयसूरिराजस्य कीर्तिमेव संदृब्धानि विरचितानि उधुरानि अतिशायीनि तानानि आलापविशेषा येषु तादृशानि गानानि यासां तानयुक्तगानानि याभिर्वा तादृशीनां वनितानां निजयुवतीनां वक्राणि वदनानि एवामृतार्चिषां चन्द्राणां सुधां पीयूषरस सोत्कण्ठं सह उत्कण्ठया वर्तते यत्तत् पिबतामास्वादयतां सादर श्रुण्वताम् । किंभूतां कीर्तिम् । स्वच्छन्द स्वेच्छया निरंकुशं त्रिजगति त्रिभुवनमध्ये यो विलासो विविधकेलोकरण तत्र रसिकां सरसामुत्सुकां वा ॥ इति सूरिकीर्तिवर्णनम् ॥ બ્લેકાર્થ ત્રણે જગતમાં નિરંકુશપણે ભમી રહેલી હીરવિજયસૂરિજીની કીર્તિરૂપી ઘણા આલાપવાળાં ગીતનું જગતની સ્ત્રીઓના મુખરૂપી ચન્દ્રમાંથી ઉત્કંઠાપૂર્વક એકાગ્ર ચિત્તે પાન કરતા જગતના ના દિવસે અપૂર્વ આનંદદાયક બન્યા. છે ૩૦૫ | यं प्रास्त शिवाहसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसीहसीहविमलान्तेवासिनामग्रिमम् । तबाह्मीक्रमसेविदेवविमलेनानन्दतो निर्मिते वृत्ते हीरगुरोश्चतुर्दशमितः सर्गों बभूवानसौ ॥ ३०६ ॥ पण्डितदेवविमलगणिना आनन्दतः आह्नादान्निर्मिते विरचिते हीरगुरोः श्रीहीरविजयसूरवत्ते चरिते हीरसौभाग्यनानि महाकाव्ये असौ पूर्वव्यावणितस्वरूप एव चतुर्दशत्वेन चतुर्दशसंख्यया वा मितः प्रमाणतां प्रापित: गणितः सर्गः काव्यरचनमयाधिकारविशेष: बभूवान् । कसुप्रयोगः । संजात इति ॥ इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेवविमलविरचितायां खोपज्ञहीरसौभाग्य. नाम्नि महाकाव्यवृत्तौ अकब्बरगोष्ठीबन्दिपञ्जरपक्षिमोचनमृगयानियमनसकलजन्तुजातसिद्धोभयनिर्भयकथनालापसुखानुभवनसोरीपुरमथुरागोपगिरियात्रानागपुरशिवपुरीप्रतिष्ठापूर्वकचतुर्मासककरणगुजरागमनजेजीयाकरमोचनामारिप्रवर्तनशत्रुजयपर्वतार्पणफुरमानादिप्रदानकीर्तिवर्णनादिवर्णना नाम चतुर्दशः सर्गः ॥ લેકાથ વણિક કુલમાં ઈન્દુ સમાન “શિવ” નામના શ્રેષ્ઠી અને સૌભાગ્યદેવીના જન્મજાત સુપુત્ર દેવવિમલગણી, કે જેમાં નિરંતર જ્ઞાનોપાસનામાં તત્પર હતા અને સર્વે મુનિએમાં સિંહસમાન સિંહવિમલગણના પ્રથમ શિષ્યરૂપે પ્રસિદ્ધ હતા; તે દેવવિમલગણી વડે જેમાં જગદ્ગુરુ શ્રી હીરવિજયસૂરિજીનું સવિસ્તર જીવનચરિત્ર આવે છે, એવા
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy