SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० २३९-२४०] हीरसौभाग्यम् लीलया विलासेन नर्मणा वा मन्थरोऽपरकर्मण्यलसः सहस्रदंष्टमहिला स्वां प्रियां वादालीमालिङ्गय स्वह्रदयेन दयिताहृदयं गाढमाश्लिष्य स वादाल इति आह स्म ब्रूते स्म । हे प्राणितप्रियतमे भीरु, अतोऽस्मादकब्बरात् पाथोधिनेमेजलधिचक्रवालाया वसुधाया अध्वराशनपतेर्यज्ञभोजनप्रभोरिन्द्रस्य अध्वरा यज्ञा अशन भोजन येषां तेषां देवानां पतिः स्वामी तस्मादभूमीन्द्रात् साध्वसं भयौं मा गा मा व्रज । यस्मात् श्रीमत्सरेगिरा वाक्यात् स प्रभुः साहिरस्मान्न हिनस्ति नालभते । उत्प्रेक्ष्यते-महान्ति सर्वोत्कृष्टानि मेरुवद्धर्तु मशक्यानि यस्य तादृशस्य सरेरन्यस्य कस्य पि साधो, नाम्रा वशंकरस्य महाव्रतिनो वपुः शरीरं यत्पाथः पानीय तस्यानिशं निरन्तर या उपासना सेवा ततः प्रोदभूतः प्रकटो जातः प्रणयः स्नेह प्रेमातिरेकस्तस्मादिव ॥ इति वादालमिथुनालापः॥ साथ કીડામાં તત્પર વાદાલ મત્સ્ય પોતાની પ્રિયાને ગાઢ આલિંગન આપીને બે કેઃ હે પ્રાણપ્રિયે, સમુદ્રપર્વતની ભૂમિનાં સ્વામી અકબર રાજાથી તું જરાયે ભય ના પામ, કારણ કે હીરવિજયસૂરિની વાણીથી આપણે વધ કરશે નહીં. મહાવ્રતી સાધુઓનાં શરીરરૂપી જલની નીરંતર ઉપાસના કરવાથી જેના હૃદયમાં પ્રેમાકુર ઉત્પન્ન થયો છે તેવા સ્નેહાળુ અકબરબાદશાહ કદાપિ આપણે વધ કરશે નહીં.” છે ૨૩૯ છે नक्राद्यानुपसृत्य तत्प्रियतमा इत्यूचुरातङ्किताः कीलालेष्विव लोलुपाशयतया हन्ता नृनेतात्मनाम् । तेऽप्याख्यग्निति वज्रबाहुनृपवद्गोपायति क्षमापति जन्तूञ्जन्तुपितामहः स करुणाकल्लोलिनीवल्लभः ॥ २४० ॥ नका जलयादोविशेषाः कुम्भीराः मत्स्यजातयस्ते आद्या आदिभूता येषां येषु वा ते नक्रचक्रपाठीनकुम्भीरालस्यकुम्भीमहामुखप्रमुखानुपसृत्य समीपमागत्य आतङ्किता भूपते. (तिव्याकुलीभूतास्ते त्प्रियास्तेषां नक्रादीनां पत्न्यः इत्यमुना प्रकारेणोचुः कथयांचक्रुः । इति किम् । हे प्राणवल्लभाः, नृनेता नरपतिरकब्बरः आत्मनां यावदात्मजातिजन्तूनां हन्ता घातयिता [स्ते] विवृद्धव्यसनवशंवदानां कृत्याकृत्यविवेको न भवत्येव । उत्प्रेक्ष्यतेकीलालेषु रुधिरेषु लोलुपो लम्पटो लुब्ध आशयो मनो येषां तत्तयेत्र रुधिरपानलुब्धमनस्त्वेनेव । ‘कीलाल रुधिरे जले' इत्यनेकार्थः । तत्त्वतस्तु जलचरत्वेन जले एव लोलुपाशयाः । ततस्ते नकाद्या जलयादोवजा अपि निजदयिताः स्वस्वप्रियाः प्रति इत्याख्यन् इदमाचख्युः । हे प्रियाः, स क्ष्मापतिनृपः जन्तूनां प्राणभृतां पितामहः पितृपिता सन् जन्तून सर्वसत्त्वान् नृप्तृवद्गोपायति रक्षति । किंभूतः । करुणा जगज्जन्त्रपरि कृपा तस्याः कल्लोलिनीवल्लभो नदीनायकः समुद्रः । किंवत् । वज्रबाहुनृपवत् श्रीशान्तिनाथपूर्वजन्मवज्रबाहुमहीपतिरिव । पारापतप्रमुखाननेकसत्त्वान् । तथा सूरिगिरा इत्यध्याहारादयमासीदिति ॥ इति नक्रादिजलजन्तु मिथुनालापः । इति जलचराः ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy