________________
श्रीमद् देवविमलगणि-विरचितम्
હીરસૌભાગ્ય મહાકાવ્ય
स्वोपज्ञया व्याख्यमा समल कुकृतम गूर्जर भाषानुवाद- सुशोभितम् तृतीय भागः
455
चतुर्दश: सर्ज : !
अथ प्रदेशीव स केशीनामुना विधातुकामः सुकृतस्य संकथाम् । इदं महीन्दुर्मुनिचन्द्रमब्रवीन्पुनन्तु पूज्या मम चित्रशालिकाम् ॥ १ ॥
अथ साहिजातानामाशीर्वाददानानन्तरं स महीन्दु' सुधासुधांशुर कब्बर ला हिर्मुनिचन्द्र रविजयसूरिं प्रति इदमेतदग्रे वक्ष्यमाणमब्रवीद्वभाषे । किंभूतः सः । अमुना सूरिणा सम तस्य धर्मस्य कथां वार्ताम् । धर्म गोष्ठीमित्यर्थ: । विधातु कामः कतु मिच्छन । कइव | देशीव । यथा प्रदेशी नामा राजा केशिना श्रीपार्श्वनाथापत्य केशिगणधरेण सार्धं धर्मकथां कर्तुकाम आसीत । इदं किम् । हे पूज्या जगन्मान्या भगवन्तः, मम
शालिक पुनन्तु पवित्रीकुर्वन्तु ।।