SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० १९३-१९५] हीरसौभाग्यम् नानो युगादिदेवनन्दनस्य मण्डलो देशः सौराष्ट्रमण्डलः । तथा फतेपुरं साहिराजधानी तदाश्रयेण मेवातमण्डलमागतम् । तथा दिल्लिका डिल्लीनामनगरी तत्कथनेन तत्पार्श्ववर्तिनोऽन्येऽपि मण्डलाः समायाताः । एतेषां मण्डलानां द्वितीयमेव द्वैतीयिकम् । स्वार्थ इकण्। तथा सन् प्रधानो योऽजमेरुदेशः तेन वनवकोटीकामरुस्थलीनागपुरादिदेशा लभ्यन्ते । तत्कृते तदर्थ तृतीयम् । पुनर्निखिलः समग्रोऽपि मालवमण्डलोऽवन्तिदेशस्तस्य । तद्ग्रहणेन निखिलापि दक्षिणदिक् तुर्य चतुर्थम् । तथा श्रिया लक्ष्म्या लाभः प्राप्तिर्यत्र तादृशेन लाभपरेण लाभपरदेशेन पञ्चापनाना। मण्डलेनेत्यर्थः । तत्समीपस्था अपि तदग्रहणेन ज्ञेयाः। युनक्तीति तादृक् मुलताननामा नीवृज्जनपदः तयो यमुच्चमुलतानादिभेदाधुग्मं तस्य कुसुमाशुगः स्मरस्तस्य बाणाः शरास्तेषां संख्या यस्यः । पञ्चममित्यर्थः । पुनः साधुषु मुनिषु सिन्धः समुद्रः स एव रसना मेखला यस्या सा पृथ्वी तस्या रजनीश्वरश्चन्द्रः तस्य । एतावता यतिराजस्य हीरसूरेः स्वस्यात्मनः सवेशदेशे समीपे रक्षणकृते कदाचित्कस्याप्याक मिकागतस्य प्रत्ययकृते दर्शनार्थ स्वपावं स्थापनार्थ षष्ठं स्फुरमानमार्यत अर्पितम् ॥ युग्मम् ॥ इति पर्युषणाद्वादशदिनामारिफरमानप्रदानम् ॥ બ્લેકાર્થ તે છ ફરમાને કયા ક્યા દેશસંબંધી હતાં, તેનું વર્ણન કરતાં ગ્રંથકાર કહે છે કેઃ (૧) ગુર્જરદેશના ગ્રહણથી સૌરાષ્ટ્રદેશ સંબંધી. (૨) બાદશાહની રાજધાની ફતેહપુરને આશ્રયીને રહેલા મેવાડ અને દિલ્હી તથા તેની સમીપમાં રહેલા અન્ય દેશસંબંધી. (૩) અજમેર, કામરૂ, નાગપુર, સ્થલી પ્રદેશ આદિ સંબંધી (૪) સમસ્ત માનવદેશ સંબંધી (૫) લાભપુર-પંજાબ અને મુલતાન આદિ દેશ સંબંધી અને (૬) છઠું ફરમાન સાધુઓનાં ચન્દ્રસમાન શ્રી હીરવિજયસૂરિજીને પિતાની પાસે રાખવા માટે અર્પણ કરવામાં આવ્યું. આ રીતે છયે ફરમાને તે તે દેશમાં મોકલવામાં આવ્યાં. ૧૯૩ . ૧૯૪ છે नैकक्रोशमितं न दृग्विषयभाक्पारं पयोराशिव क्रीडत्कुञ्जरवाजिराजिवनितामर्त्यव्रजभ्राजितम् । नानानीडजमीननीरभरितं तड्डामराख्यं सर स्तेभ्योऽदत्त निषिद्धमीननिधनं तद्विज्ञवाग्भिर्तृपः ॥ १९५ ॥ नृपोऽकब्बरस्तेषां सूरीणां विज्ञाः पण्डितशान्तिचन्द्रगणयस्तेषां वाग्भिः डामरसरो मत्स्यीविज्ञप्त्युपदर्शकश्लोकोक्तियुक्तिभिः निषिद्धं निवारितं मीनानां मत्स्यानां निधनं वधो यत्रैवंविधं तत्स्वयं साहिना खानितत्वान्महत्तया प्रसिद्धं डामर इत्याख्या नाम यस्य तादृशं सरो महातटाकं तेभ्यो हीरविजयसरिभ्यः अदत्त ददिवान् । किंभूतम् । नैके बहवः
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy