________________
सर्ग १४ श्लो० १९०-१९२ ]
हीरसौभाग्यम्
५५७
नृपः किं कुर्वाण: । वेलां कूलभूमीकृमतिक्रान्त उद्वेल उत्कण्ठः। उद्वेलता संजाता अस्मिन्नि त्युद्वेलितः । अखिलानां समग्राणां शरीरिणां जलस्थलाम्बरचारिणां प्राणिनामुपरि कृपा दयोदयः तद्रूपः पयोधिः समुद्रो येषां तादृशान्प्रभृन् हीरसूरीन्प्रेक्ष्य दृष्टा चमत्कृति यत्र तत्राप्येतेषां केवलं सर्व प्राणिषु करुणापरिणाम एव तदहो महानुभावा एवेत्याश्चर्यम् । आ सामस्त्येन सर्वाङ्गीणोल्लसद्रोमाञ्चकञ्चुकत्वेन दधानः बिभ्राणः ।
શ્લોકાઈ વેળાનું ઉલ્લંઘન કરનાર સર્વજીવદયારૂપ સમુદ્ર જેવા આચાર્યને જોઈને હૃદયમાં આશ્ચર્ય પામતા રાજાએ આ પ્રમાણે કહ્યું: “મારા પુણ્ય માટે આપના પયુંષણના આઠ દિવસ ઉપર અધિક મારા ચાર દિવસ હે! જેમ દશવૈકાલિક આદિ શાસ્ત્રોની ઉપર ચૂલિકા-શિખા હોય તેમ શિખારૂપે ચાર દિવસ અધિક અમારિ પ્રવર્તન હે! | ૧૯૦ છે
प्रारभ्यमेच-कनभोदशमीं शमीश
यावन्नभस्य बहुलेतरपष्ठिका स्यात् । तावच्चरन्तु सुखमङ्गिगणात्रिलोकी
जीवातुनेव भवतां वचसेत्युदित्वा ॥ १९१॥ स्वाहाङ्कितं कजसुहृन्मितवासराणां
विभ्रद्विचित्ररुचिकाञ्चनचारिमाणम् ॥ अम्भोनभोवनतनूमदमारित्कं
प्रादायि तेन गुरवे फरमानषकम् ॥ १९२ ॥
तेनाकब्बरसाहिना स्वाहाङ्कितं निजनामकलितम्, तथा कजसुहृदः कमलबान्धवाः सूर्याः तैर्मितानां प्रमाणीकृतानां द्वादशसंख्याकानां वासराणां दिवसानाम्, तथा अम्भसां पानीयानाम्, तथा नभसाम् । वियच्चराणामित्यर्थः । तथा वनानामुपलक्षणाज्जनपदनगरपु. रग्रामाणां ये तनूमन्तः अम्भश्वरा मत्स्यकच्छपादयः नभश्वरा मयूरशुककलिविङ्कादयः वनचराः शशशम्बरहरिणादयः ग्रामादीनां महिषमेषादयः एतेषां जीवानाममारिः जीववत्पालनदया तत्सत्कं तत्संबन्धि स्फुरन्मानानां साहिनाममुद्राङ्कितलेखविशेषाणां षङ्क गुरवे हीरविजयसूरये प्रादायि प्रदत्तम् । किं कुर्वत । विशिष्टानि विचित्राण्यालेख्यानि यत्र रुच्या स्फुरज्ज्योतिषा युक्तस्य काञ्चनस्य । अथ वा विशिष्टा मनोज्ञा चित्रा विस्मयकारिणी । अथ वा विचित्रा नानाप्रकारा रुचिः कान्तियेस्य ताहशस्य काञ्चनस्य कनकस्य चारिमाणं मनोहरतां बिभ्रद्धारयत् । दतं किं कृत्वा । इत्यमुना प्रकारेणोदित्वा कथयित्वा । इति किम् । त्रिलोक्यात्रिभुवनस्य जीवातुना जीवनौषधिनेव । आकाशेन खला ऊर्ध्वलोकः,