________________
४०
हीरसौभाग्यम्
सर्ग ९ श्लो० ९२ -९४]
अमीभिर्मुनिमुख्यैरयं जयविमलनामा पण्डिताग्रणीः कोविदकुञ्जरः मण्डपं जनाश्रयभानीयत आनीतः । कैरिव । गन्धवाहैरिव । यथा उत्तरस्यां भवैरुत्तराहैः समीरणैः । लौके 'सूरवाय' इति प्रसिद्धः । अम्बुवाहो जलभरनिर्भरभृतमध्यो घाराधरः अम्बरस्याकाशस्याङ्कमुत्सङ्गमानीयत ॥
લોકાઈ જેમ ઉત્તરદિશાને પવન આકાશમાં મેઘને લાવે તેમ મુખ્ય મુનિવરે વિદ્વદુ શિરોમણિ એવા જયવિમલમુનિને મંડપમાં લઈ આવ્યા. પરા
प्रभु बभाज तैः सार्ध साधुभिः साधुसिन्धुरः ।
युवराज इवानल्पैः सामन्तैः पितरं निजम् ॥९३॥ ___स साधुसिन्धुरः जयविमलमुनीन्द्रः तैः सरिप्रहितैर्मुनिपञ्चाननैः सार्ध प्रभुं हीरविजयसूराश्वरं बभाज आगत्य प्रणम्य सेवते स्म । क इव । युवराज इव । यथा सकलजनपदप्रजाचिन्ताकारकतया स्थापितो नृपकुमारः अनलपैबहुभिः सामन्तैः सीमालभूपालेरनेकमण्डलीकमहीपालैर्वा समं निजं पितरं जनक सेवते ॥
લેકાર્થ
જેમ યુવરાજ ઘણા સામંતે સાથે આવીને પિતાના પિતા રાજાને પ્રણામ કરે તેમ મુનિપુંગવ જયવિમલમુનિએ સાધુઓની સાથે આવીને ગુરૂદેવને નમસ્કાર કર્યા. ૧૯૩
भाविसूरेरभूत्तस्योपाध्यायपदमादितः ।
१परमावधिवत्साधोरुदेष्यत्केवलश्रियः ॥१४॥ भविष्यतीत्येवंशीलो भावी स चासौ सूरिश्च तस्य भविष्यदाचार्यस्य आदितः प्रथमं तस्य जयविमलविदुषः उपाध्यायनाम पदमभूबभूव । एतावता आचार्यपदादावुपाध्यायपदं प्रदत्तमित्यर्थः । किंभूतम् । परमावधिवत् । यथा उदेष्यन्ती प्रकटीभविष्यन्ती केवलश्रीः केवलज्ञानलक्ष्मीर्यस्य तादृशस्य साधोः श्रमणस्य परममुत्कृष्टं पृथक्परमाणुज्ञानल्लोकमानमलोकेष्वपि लोकप्रमितासंख्येयखण्डावबोधविधायकमवधिज्ञानं भवति । अथ वा प्रादुर्भविष्यत्केवलमेकाकार निखिललोकाकाशप्रकाशकं ज्ञानं यस्य तादृग्विधस्य जिनेशितुः तीर्थकरस्य आदितः संयमग्रहणप्रथमसमय एव तूर्य चतुर्थ मनःपर्यायसंझं ज्ञानं भवति इति द्वितीयपाठः ॥
१. ऊदेष्यत्केवलस्येव तुर्य ज्ञान जिनेशितुः' इति पाठान्तरम् ।