________________
सर्ग १३ श्लो० २२०--२२०]
हीरसौभाग्यम्
पतिस्तस्य नन्दनस्तनयः । 'गौरीगुरुस्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य' इति वस्तुपालवसतिप्रशस्तौ अर्बुदाचले एव । यस्मिन्नर्बुदगिरौ वृषाङ्कः प्रभुः ऋषभदेवः स्वामी स्वयमात्मना वसति । पूर्व तु भरतादिसंघपतिभिः स्वस्वोद्धारकरणसमये ऋषभादितीर्थकृत्प्रतिमाः स्थापिताः अभूवन, परमिदानीतनसमये पञ्चमे अरके विमलमन्त्रिणा सर्व प्रासादनिर्मापणात्पूर्व स्वकारितविमलवसती ऋषभस्वामी वर्तते । कस्मिन्निव । स्थाणुक्षोणिभृतीत्र । यथा अष्टापदपर्वते सतीष्वपि त्रयोविंशतितीर्थकृतप्रतिमासु भरतकारितत्वात्स्वतातत्वाच्च मुख्यतया ऋषभदेव एव स्वामी । अथ च वृषाङ्कः शंभुरचलेश्वरी यत्र परशासनदेवो विद्यते । सोऽपि कस्मिन्निव स्थाणुक्षोणिभूतीव । यथा कैलासेऽपि परशासनरीत्या ईश्वरो विद्यते । किभूतों द्वावपि । वृषो वृषभोऽङ्को वामोरूचिह्न यस्य । शंभोर्वाहनत्वे यस्य । 'रुद्रोड्डीशो वामदेवो वृषाङ्कः' इति हैम्याम् । पुनः किंभूतौ । प्रभुः स्वामी सर्वादिभूतत्वात्प्रथमराजत्वात्सर्व सृष्टिकारणत्वाच्च शंभुरपि प्रभुः समर्थः सृष्टिसंहरणकारकत्वात् विश्व ब्रह्मरूपेण सृजति विष्णुरूपेण पालयति शिवरूपेण संहरति । अत एवोक्तम् – 'एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । समनसर्गनिर्माणपालनक्षयकारिणः ॥' इति । तथा नैषधेऽप्युक्तम्-क्षये जगजीवपिब शिव वदन्' इति । पुनः किंभूतौ । कल्पितः कृत: शिवस्य मुक्तिलक्ष्म्याः शिवायाः पार्वत्या आश्लेष आलिङ्गनं येन । किं च नहि गुणरूपाया मुक्तेराश्लेषो युज्यते, परमेतत्तु कविसमयानुसारि वचः 'नभःपरीरम्भणलोलुभेन' इत्यादिवत्तार्किकमताक्तवीनां समयो धर्मश्च पृथगेवेति नात्र वितर्कः । पार्वत्याः परीरम्भस्तु पतित्वादर्धाङ्गत्वाच्च युक्त एव परोऽन्यः स विंशतितीर्थकृतां निर्वाणकल्याणकत्वेन विख्यातः संमेतनामा भूभृत् शैलोऽस्ति । स कः संमेताचलः । अहंतां जिनेन्द्राणाम् अजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतलश्रेयांस-विमल-अनन्त-धर्म-शान्ति-कुन्थि-मल्लि-मुनिसुव्रत-शान्तिनेमि-पाच जिनचन्द्राणां विंशतिर्विशतिसंख्याकान् स्तूपान् स्थूलस्तम्भाकृतिविशेषान्वहति बिभर्ति । यत्र तीर्थकृतां चित्यायां शरीरसंस्कारो भवति तत्रेन्द्राः स्तूपान्कारयन्तीति स्थितिः। तत्रो. त्प्रेक्ष्यते-क्षितिभृतः श्रिया स्वस्पर्धिनः सर्व पर्वतान् नृपांश्च निजे तुं पराभवितु दशमौलि. घद्रावण इव । संयुगे संग्रामे साधवः सांयुगीनास्तान रणधुरीणान् संग्रामशौण्डान् विंशतिर्भुजान्बाहू निव बिभर्ति । जैत्रराजस्यापि परराजजेतृत्व युक्तमेव । 'करशाखाः श्रीभर्तु विशोपकाः सकलजननखाङगुल्यः । दशकंधरनेत्रभुजाः संख्यया विंशतिर्वाच्याः' । इति काव्यकल्पलतायाम् ॥
કાથ
વળી હે રાજન, અબુંદગિરિ નામનું એક ત્રીજું તીર્થ પ્રસિદ્ધ છે. જે અબુંદગિરિ ઉપર પૂર્વે ભરત આદિ સંઘપતિઓએ પિતપતાના ઉદ્ધાર માટે ઋષભદેવા આદિ તીર્થકર ભગવંતની પ્રતિમાઓ સ્થાપના કરી હતી, પરંતુ આ પચમકામાં તે