________________
__सर्ग १३ श्लोक १७३-१७५]
हीरसौभाग्यम्
४२७
શ્લેકાર્થ
આચાર્યદેવ સૌભાગ્યરૂપી લક્ષ્મીને વાસ કરવા માટે વિષ્ણુનું વક્ષસ્થલ ન હોય અથવા કરૂણારૂપી અમૃતનું જાણે ચંદ્રમંડેલ ન હોય ! અથવા જાણે ભાગ્યને અક્ષય ભંડાર ન હેય ! અથવા જાણે ક્ષમારૂપી નદીઓનાં ઉત્પત્તિસ્થાન રૂપ પર્વત ન હોય ૧૭૩
यशःसुमस्येव सुपर्वसालं किं ज्ञानभानोरुदयाचलं वा । सप्तर्षिपुत्रं किमु चित्रवाचामिवाकरो लब्धिमणीगणानाम् ॥ १७४ ॥
उत्प्रेक्ष्यते-यशः सर्वजगजनजेगीयमानस्फीतकीर्तिरेव सुम' प्रसून तस्य सुपर्वसाल कल्पद्रुममिव । सदा विकाशपरिमलादिबाहुल्यात्सुरतरुकुसुमकथनम् । पुनरुत्प्रेक्ष्यतेज्ञानमेव भानुः सूर्यः तस्याभ्युदयार्थमुदयाचलं पूर्वपर्वतमिव । पुनरुत्प्रेक्ष्यते-चित्राणां जगदाश्चर्यकारिणीनां वाचां वचनवैचित्रीणां सप्तर्षिपुत्र किमु बृहस्पतिमिव । 'बृहस्पतिः सुराचार्यों जीवश्चित्रशिखण्डिजः' इति हैम्याम् । पुनस्तत्रैव 'सप्तर्षयश्चित्रशिखण्डिनः' । तथा नैषधे-'विचित्रवाक चित्रशिखण्डिनन्दनः' इति बृहस्पतेः सप्तर्षिपुत्राभिधानमः । यथा चित्रशिखण्डिनन्दनस्तथा सप्तर्षिसूनुरपीति । पुनरुत्प्रेक्ष्यते--लब्धयस्तपःप्रादुर्भूतशक्ति विशेषास्ता एव मणीनां गणास्तेषामाकरं खानिमिव ॥ आदितस्त्रयोद्धशभिः कुलकम् ॥ इति हीरविजयसरिवर्णनम् ॥
પ્લેકાર્થ
જાણે યશરૂપી પુષ્પનું કલ્પવૃક્ષ ન હોય ! અથવા જાણે જ્ઞાનરૂપી સૂર્યને ઉદયાચલ ન હોય ! અથવા જાણે વચનચાતુર્ય વડે બૃહસ્પતિ ન હોય ! અથવા જાણે લબ્ધિઓ રૂપી મણિરત્નોની ખાણ ન હોય ! આવા આચાર્યદેવ અસાધારણ ગુણના ભંડાર હતા. છે ૧૭૪
तं व्याजहारेति महीमहेन्द्रो जागर्ति वात खलु युष्मदङगे । हिमं सरःपद्ममिवाध्वजन्मा क्लमोऽपि नाक्रामति वः शरीरम् ॥ १७५ ॥
महीमहेन्द्रः अकब्बरपातिसाहिः तं सूरिमित्यमुना प्रकारेण व्याजहार व्यक्ति स्म । इति किम् । हे सरे, खधु निश्चितं युष्मदने श्रीमतां देहे वार्तमनामयं समाधिर्जागर्ति