________________
सर्ग १२ श्लो० ११४-११५]
हीरसौभाग्यम्
जय प्रणतपूर्वदिक्प्रणयिमौलिमालागल-- न्मरन्दकणधोरणीनपितपादपद्मद्वय । जय त्रिभुवनेन्दिराभरण नाभिभूमीधना-- न्ववायगगननाङ्गणाम्बरमणे महोक्षध्वज ॥ ११४ ॥
हे प्रणतः प्रणामप्रवीभूतः पूर्वदिशः प्राचीहरितः प्रणयी पुरंदरः उपलक्षणाच्चतुःषष्टिरपीन्द्राः तेषां मौलयो मुकुटास्तेषां मालाः पुष्पदामानि तेभ्यो गलन्तो निःसरन्तो ये मरन्दाः कुसुमरसास्तेषां कणानां बिन्दूनां धोरण्यः श्रेणयस्ताभिः स्नपितं कारितस्नान प्रक्षालित वा पादपद्मयोश्चरणारविन्दयोईयं द्वन्द्र यस्य तत्संबुद्धौ । अथ वा केवलमेक एव शक्रोऽपि वाच्यः । त्वं जय विजयस्व । हे त्रिभुवनस्य त्रैलोक्यस्य या इन्दिरा लक्ष्मीस्तस्या आभरण अलंकारभूत । पुनहे नाभिनानो भृमीधनस्य राज्ञोऽन्ववायो वंशः स एव गगनाङ्गणं ठयोमाजिरं तत्राम्बरमणिः प्रकाशकत्वात्सूर्यः तत्संबुद्धौ । पुनहें महोक्षः ककुमान ध्वजे लाञ्छने यस्य त्वं जय ॥
શ્લોકાઈ
નમસ્કાર કરી રહેલા શકેન્દ્ર આદિ ચોસઠ ઇન્દ્રોના મુગટેની માલાઓમાંથી ઝરતા પુના રસનાં બિંદુઓની પંકિતથી સ્નાન કરાયેલાં ચરણ-કમલ-યુગલવાળા છે ભગવંત, આપ જયવંતા વર્તો. ત્રણે ભુવનની લક્ષ્મીના અલંકારભૂત તેમજ નાભિરાજાના વંશરૂપી ગગનાંગણના પ્રકાશક હોવાથી સૂર્યસમાન વૃષભલાંછનવાળા હે સ્વામિન, આપ જયવંતા વ. છે ૧૧૪ |
जय त्रिभुवनाशिवप्रशमनात्मगम्भीरिमापहस्तिततरङ्गिणीप्रियतमावलेप प्रभो । महोदयपयोरुहोदरविनोदपुष्पव्रताम्बुजासन इव स्फुटीकृतविशिष्टसृष्टिक्रमः ॥ ११५ ॥
हे त्रिभुवनस्य त्रिजगतः अशिवस्योपद्रवस्य अरिष्टस्य वा प्रशमन निर्णा( )शक । पुनहे आत्मनः स्वस्य गम्भीरिम्णा गाम्भीर्येण अपहस्तितो निराकृतो निर्घाटितः तरङ्गिणी सरितां प्रियतमस्य भर्तुः समुद्रस्य अवलेपोऽहंकारो येन । 'तुलेऽवलेपं च हसे वृथैव' इति प्रतिक्रमसूत्रवृत्तौ । पुनहे प्रभो स्वामिन, त्वं जय । हे महाननन्तज्ञानदर्शन