________________
सर्ग १२ श्लो० ९३-९५]
सौभाग्यम्
શ્લેાકા
३०७
જેમ ઈન્દ્રે વૈજયન્તી' નામની ધજાવાળા વૈજયન્ત' નામના પ્રાસાદમાં પ્રવેશ કરે તેમ નિથાના રાજા હીરવિજયસૂરિએ વિમલમંત્રીએ બંધાવેલા વિમલવસહી નામના ચૈત્યમાં પ્રવેશ કર્યાં. ॥ ૯૩ ।
वप्ताब्धिर्मथितोऽनवाप्तपदवत्कुत्रापि बन्धुर्विधुः
शून्ये व्योमनि बम्भ्रमीति विपिनेऽप्यन्यः स्थितः स्वस्तरुः । क्षितैा तु जनार्दनेन सदने पुसा पुराणेन मे जामिः श्रीरपरा सुधापि च सुरैः पानेन निष्ठाप्यते ॥ ९४ ॥
दुःखं कामगवी परा चरति च प्रोत्तानयानाम्बरे धत्ते कौशिकपत्यगोत्रदमनो मन्मूर्ध्नि पादं पुनः । इत्याद्यर्तिमधीश भिन्धि किमिदं वक्तुं जिनं सप्रजः स्वर्दन्तीव समागतो गजगणस्तेनालुलोके पुरः ॥ ९५ ॥ ( युग्मम् )
तेन हीरसूरिणा पुरोऽग्रे विमलवसतिप्रदेशे प्रथममेव गजानां श्वेतोपलनिर्मितानां हस्तिनां गणो व्रज आलुलोके दृष्टः । उत्प्रेक्ष्यते - जिनं वृषभतीर्थकर विश्वस्यादिसृष्टिकरमथ वा जगत्पालकत्वेन जिनं ब्रह्मरूपेण विश्व सृजति नारायणरूपेण पालयति ईश्वररूपेण च संहरतीति । 'एकमूर्तिस्त्रयो देवाः' इति परसमये । इदं वक्ष्यमाणं वक्तु कथयितुं सप्रजः ससंतानः । ' तो कापत्यप्रसृतयः । तुम्प्रजाः' इति हैम्याम् । स्वर्दन्ती किमैरावण इव समागत इह संप्राप्तः । इदं किम् । हे अधीश, हे जगत्प्रभो, त्वं मे मम इति पूर्वोक्तप्रकारा काव्यस्यादौ वर्तमाना आदौ यस्यास्तादृशीमति मानसीं चिन्तामत्यु भूतां पीडां शारीरिक व्यथां वा भिन्धि निवारय मूलादुन्मूलय । इति किं तानेव प्रकारान्प्रदर्शयति मे मम वप्ता पिता अब्धिः क्षीरसमुद्रः अर्थादेव लभ्यते । चतुर्दशानामपि रत्नानां क्षीरनीरनिधौ समुत्पन्नत्वेन तज्जनक एव गीयते । स मथितो हरिणा सुराभ्यर्थितसुधारसंकृते भुजंगराजं नेत्रीकृत्य मन्दरगिरिं च मन्थानकं विधाय विलोडितः । बन्धुः पुनर्मम सहोदरो विधुश्चन्द्रमाः कुत्रापि नगरग्रामादिस्थाने अनवाप्तमलब्धं पद वासस्थानं येन तद्वत् शून्ये निर्मानुषे व्योमनि आकाशमार्गे बम्भ्रमीति अतिशयेन पर्यटति । अपि पुनरन्यो बन्धुः स्वस्तरुः कल्पद्रुमः कुत्रापि जनसंगते पुरादौ प्रदेशे अप्राप्तावस्थितिरिव विपिने कानने स्थितो गत्वा उषितः । तु पुनरेका मे जामिर्भगिनी श्रीलक्ष्मीर्जनार्दनेन लोकपीडा