________________
सर्ग १२ श्लो० १-२]
हीरसौभाग्यम्
२५१
द्वादशः सर्गः । सरिराजोऽथ संप्रस्थितस्तत्पुरान्मेवडाभ्यां पुरोगामुकाभ्यां युतः ।
श्लोकचन्द्रातपश्वेतिताशामुखो यामकाभ्यां शशी पूर्वशैलादिव ॥१॥ अथ राजनगरे कतिचनदिनस्थित्यनन्तरं सरिराजः श्रीहीरविजयसूरिः तत्पुरादहम्मदाबादनगरात्सम्यक् पदे पदे समानमहोत्सवपूर्वकं प्रस्थितः पुरश्चचाल । किंभूतः । पुगे गुरोरग्रे गामुकाभ्यां गमनशीलाभ्यां मेवडाभ्यां मोंदीकमालनामाभ्यां साहिप्रहितदूताभ्यां दूतानां लेखहारकाणां च । मुद्गलजातिप्रसिद्धं मेवाडा इत्यभिधानं प्रोच्यते । पुनः किंभूतः । प्रलोको यशः स एव चन्द्रातपश्चन्द्रिका तेन श्वेतितानि उज्ज्वलीकृतानि आशानामाहशदिगङ्गनानां मुखानि वदनानि येन । क इब । शशीव । यथा चन्द्रश्चारवशात्पुरः समेताभ्यां पुनर्वस्तारकाभ्यां युक्तः । 'पुनर्वस्तु यामकौ' इति हैम्याम् । युक्तः पूर्वशैलात्प्राची पर्वतात्प्रतिष्ठते । किंभूतः शशी । यशःसदृशचन्द्रगोलिकया उज्ज्वलीकृद्दिङ्मण्डलः ॥
શ્લેકાર્થ
જેની યશરૂપી ચન્દ્રિકાવડે દિશાઓના મુખ ઉજવલ કરાયાં છે તે ચન્દ્ર યમલા (પુનર્વસુ અને પુષ્ય) સહિત જેમ પૂર્વાચલથી પ્રયાણ કરે તેમ રાજનગરમાં કેટલાક દિવસની સ્થિરતા કરીને, સ્થાને સ્થાને સન્માન પામેલા હીરવિજયસૂરિજીએ, બાદશાહે મેલેલા મોદી અને કમાલ નામના આગળ ચાલી રહેલા બે મેવાડી દુતેની સાથે અમદાવાદથી મહોત્સવ પૂર્વક પ્રયાણ કર્યું. ૧
कुत्रचिद्वाणिनी स्नग्विणी शालिनी यत्र लोकंपृणा क्वापि वातोमिका । हंसमाला क्वचित्क्याषि कन्या मृगी कुत्रचिन्मालती पुष्पिताग्रा पुनः॥२॥
क्वापि शार्दूलविक्रीडितं दृश्यते क्वापि दृप्यद्भुजंगप्रयातं पुनः । सूरिशीतयुतेः सर्पतः पद्धतौ छन्दसां जातिवत्कुञ्जभूमिः स्मे भूत् ॥ ३॥
सूरिशीतयुतेः हीरसूरिचन्द्रस्य पद्धतौ मार्गे सर्पतः प्रचलतः कुञ्जभूमिर्वनावनी छन्दसां विविधवृत्तानां जातिरेव स्म भूत् बभूव । 'स्मयोगेऽप्यटो लोपमिच्छन्ति' इति सारस्वतव्याकरणे । यत्र कुञ्जभूमौ छन्दोजातौ च कुत्रचित्प्रदेशे वाणिनी । 'छेका मत्ता च वाणिनी'