________________
सर्ग ११ श्लो ० ११६-११७ ] हीरसौभाग्यम्
२२३
શ્લોકાથ
જેમ વસન્તત્રતુનું આગમન જાણીને વૃક્ષસમૂહ પરીમલથી પુષ્ટ બને તેમ જેમાંથી કામદેવ ચાલ્યા ગયા છે તેવા મુનિ પતિના આગમનનાં સમાચાર જાણીને હષ્ટપુષ્ટ બનેલા અકમિપુરના શ્રાવક, જેમ રાજગૃહી નગરીનાં શ્રાવકે ભગવાન મહાવીરની સન્મુખ ગયા હતા તેમ આચાર્યદેવની સન્મુખ જવા માટે સજજ થયા. ૧૧૬
पर्याण्यन्ते स्म वाहा हरिहरय इवोत्तीर्णवन्तः क्षमायां क्वाप्यप्राप्तावलम्बाम्बरचरणभवद्भूमनिर्वेदभाजः ।
शङ्गार्यन्ते गजेन्द्रा गिरिगुरुवपुषः क्लुप्तसिन्दूरपूरा विद्मः प्रातस्त्यसंध्याः कुनयसमुदवज्ज्योतिरस्तं नयन्त्यः ॥ ११७ ॥
वाहास्तुरगाः पर्याण्यन्ते स्म पल्ययनकलिताः क्रियन्ते स्म । उत्प्रेक्ष्यते-क्वापि कस्मिन्नपि प्रदेशे अप्राप्तमनासादितमालम्बनमू/भवनोपवेशनादिस्थित्याधारस्थानं यत्र तादृशेऽम्बरे गगनाङ्गणे चरणं परिभ्रमणं तस्माद्भवन्नुत्पद्यमानो यो भृम्ना बाहल्येन निवेदः खेदः त भजन्तीति तादृशाः सन्तः क्षमायां पृथिव्यामवतीर्णवन्त आगता इन्द्राश्वा इव । 'शतैस्तमक्षणामनिमेषवृत्तिभिहरिं विदित्वा हरिभिश्च वाजिभिः' इति रघुवंशे शक्रस्याश्वानां बाहुखं न त्वेक एवोच्चैःश्रवाः । अथ वा सूर्याश्वा इव । पुनर्गजेन्द्राः शृङ्गार्यन्ते स्मं रक्तपीताम्वरचरमरकिंकिणीघण्टाद्यनेकशृङ्गारयुक्ताः निमींयन्ते स्म । किंभूताः । गिरिः पर्वतस्तद्गुरु महवपुः शरीरं येषाम् । पर्वतप्राया इन्यर्थः । पुनः किंभूताः क्लुप्तो रचित: सिन्दूराणां शङ्गारभूषणानां पूरः समूहो येषु। उत्प्रेक्ष्यते-प्रातस्त्याः प्रातःकालीनाः संध्या इव । किं कुर्वन्त्य; । कुनयानां शाक्यादीनां कुमतानां वा समुदायो गणः स एव ज्योतिग्रहनक्षत्रतारकादिस्तदस्त नाशं नयन्त्यः प्रापयन्त्यः ॥
શ્લોકાથ
(આચાર્યદેવના સ્વાગતાર્થે) અશ્વો પલાણવામાં આવ્યા. નિરાલંબન આકાશમાં ચિરકાલ બ્રમણ કરવાથી ખૂબ ખેદ પામેલા છે અર્થાત્ કંટાળીને ગયેલા ઈન્દ્રના અક જાણે પૃથ્વી પર ઉતરી આવ્યા ન હોય તેવા અલ્પો પલાણ યુકત કરવામાં આવ્યા. વળી