SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ im m unescori. CODA . .. हीरसौभाग्यम् [सर्ग ११ श्लो० १११३-११३ त्प्रदेशे मृगाः कुरङ्गाः उपलक्षणादन्येऽपि वन्यश्वापदाः तथा चित्राः सर्पजातिविशेषाः लोके 'चित्रडि' इति प्रसिद्धा उपलक्षणात्तत्तजातयश्च । अथवा चित्रा आखुपर्णी इन्द्रवारुणी वा उपलक्षणात्सवौषधयस्ताभिरन्वितम् । किंवत् । पवनवम॑वद्यथा आकाश मृगो मृगशीर्ष पतङ्गः सूर्यः तथा चित्रा नक्षत्र तैर्युतम् । 'चित्रादन्त्यां सुभद्रायां नक्षत्रौषधिभे दयोः । दिव्यस्त्रीसर्पयोराखुपया च' इत्यनेकार्थतिलके । पुनः किंभूतम । मदनमण्डल इति नाम प्रसिद्धः पादपैर्मेदुरं भृतम् । किमिव । कुलमिव । यथा एणकान्ता मृगाङ्गना हरिण्यस्तासां.दृश इव दृशोऽतिचपलानि लोचनानि यासां तासां स्त्रीणां वृन्द मदनेन कंदपैणोपचितम । पुनः किंभूतम् । सह सहदेवैरौषधिविशेषैस्तथा भीमैराम्लघेतसः तथा अर्जुनैरर्जुननामवृक्षविशेषैर्वर्तते यत्तत् । किं च कुरुनिकेतवत् यथा कुरुणां कौरववशीयनृपाणां पाण्डुनां राज्ञाम् । महत्त्वाद्बहुवचनम् । कुरोः पाण्डोनू पस्य वा गृहं सह सहदेवो माद्रीनन्दनः भीमार्जुनौ कुन्तीसुतौ वृकोदरकिरीटिनौ तैर्युक्तम् । 'सहदेवेनैकेन स्पर्घमाना अनेकैः सहदेवैः संगताः' इति चम्पृकथायाम् । पुनः भितम् । क्वचित्कचिस्थाने कीचकैः सच्छिद्रवंशैः वेणुभिः अञ्चित कलितम् । किंवत् । विराटनृपगेहवत् । यथा विराटराजस्य गेहं कीचकैविराटनृपपत्न्याः सुदेष्णाया शतसहोदरैः कलितं सहितम् । पुनः किंमतम् । क्वचित्प्रदेशे विविधा लघुवृद्धादयो वाहिन्या नद्यस्ताभिर्मण्डितम् । किंवत् । नृपसमीपवत् । यथा राज्ञः पार्श्व विविधाभिर्गजहयरथपदातिप्रमुखाभिः सेनाभिभूषितं भवति । 'वाहिनी सिन्धुसैन्ययोः' इत्यनेकार्थः । पुनः किभूतम् । शिखिनां मयूराणां विविधैः स्फूर्जितैः केकारवताण्डवक्रीडादिविलासैः कलितम् । किंवत् । अग्निविद्भवनवत् यथा अग्नीहोत्रीयाणां गृहं शिखिनां दक्षिणाग्निहवनीयगार्हपत्याभिधानां प्रयाणां हुताशनानां विस्फूर्जितैः स्फूर्तिभिः कलितं भवेत् । पुनः किंभूतम् । करीन्द्राणां युथनाथानां कुलैर्वशैः संकुलं व्याप्तम् । किंवत् । विन्ध्यभूमीध्रवत् । यथा विन्ध्याचलो गजेन्द्रकुलैः संकुलो भवति ॥ इति गन्धाराकमिपुरमध्यमार्गवर्णनम् ॥ લોકાથ તે મુનિરાજ આચાર્યદેવે વિહારના ક્રમે માર્ગનું ઉલ્લંઘન કર્યું, તે માર્ગ કે હતે ? જેમ આકાશમાર્ગ મૃગશીર્ષ, સૂર્ય અને ચિત્રા નક્ષત્રવડે ત હોય છે તેમ એ માર્ગ હરણ ચિત્તા આદિ વન્ય પશુઓ વડે યુક્ત હતું, જેમ મૃગનયના સ્ત્રીઓનું કુલ કંદર્પથી પુષ્ટ હોય તેમ એ માર્ગ મદન નામના વૃક્ષેથી ભરપુર હતું, જેમ પાંડુરાજાનું ઘર સહદેવ, ભીમ અને અજુનથી યુક્ત હતું તેમ કઈ પ્રદેશ સહદેવ નામની વિશિષ્ટ ઔષધિથી. ભીમ-આસ્લ અને વેતસ જાતિના વૃક્ષેથી તેમજ અર્જુન નામના વૃક્ષવડે સહિત હતું, જેમાં વિરાટ રાજાનું ઘર વિરાટ રાજાની રાણી સુદેણાના સે ભાઈઓ કિચકેથી યુક્ત હતું તેમ કઈ પ્રદેશ સછિદ્ર વાંસોથી યુક્ત હતે. જેમ
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy