________________
[ सर्ग ९ श्लो० २२-२५
सौभाग्यम्
प्रभुः सूरिः इत्यमुना प्रकारेण अन्तश्चेतसि उदयन्ती प्रकटीभवन्ती या प्रीतिः प्रमादः । ‘प्रीतिः स्मरस्त्रियां प्रेम्णि योगमुदाः' इत्यनेकार्थः । सैव मेकलनामा अद्रिः पर्वतविशेषस्तस्य कनी कन्या पुत्री । नर्मदा नदीत्यर्थः तस्याः प्लवे पानीयपूरे । 'नर्मदा मेकलाद्रिजा' इति हैम्याम् । तथा 'समुत्तीर्य भगवतीं मेकलकन्याम्' इति चम्पूकथायाम् । चिरं बह्रीं वेलां यावन्निचिखेल क्रिडति स्म । क इव । गन्धसिन्धुरेन्द्र इव । यथा कपालपालीप्रमुखसप्तस्रोतानिः
।
सरम्मदाम्भःप्रवाहाघ्राणमात्रपलायितापरसिन्धुरधारणीबन्धुरगन्धापलक्षितसिन्धुरेन्द्रो मेकलशैलनन्दिन्या नर्मदायाः पयः प्रवाहे चिर स्वेच्छापूरणपर्यन्त खेलति ॥ इति गुरोर्हृदये विमर्शः ॥
अर्थः
આ પ્રમાણે હૃદયમાં ઉત્પન્ન થયેલી પ્રીતિરૂપી મેકલ પર્વતની પુત્રી નમઁદા નદીના જલ પ્રવાહમાં જેમ ગ ંધહસ્તિ ( જેનાં ગંડસ્થલમાંથી સ્રવતા મદજલની સુગંધ માત્રથી જ સામાન્ય હસ્તિઓ પલાયન થઈ જાય તે ગંધહસ્તિ ) ચિરકાલ સ્વેચ્છાપૂર્વક ક્રીડા કરે તેમ હીરવિજયસૂરિ પ્રીતિરૂપી નદાના પ્રવાહમાં ચિરકાલ પર્યંત મગ્ન અન્યા. ॥ ૨૨ ॥
लोकान्कोका निवाहादं लम्भयन्भानुमानिव । दानलीलायितैर्हे लां कल्पयन्कल्प भूरुहाम् ॥ २३॥
प्रबोध विदधत्प्रातरिवाशेषजनुष्मताम् । पुष्पकाल इवेोल्लास प्रणयन्सुमनः श्रियाम् ॥ २४ ॥
त्वं चिर नन्द सूरीन्द्रेत्यभिनानूय निर्जरी । ततस्तच्चरणाम्भोज भ्रमरीव चुचुम्ब सा ॥ २५॥
ततोऽनन्तर' सा निर्जरी शासनदानवद्विषत्त्रस्यत्पृषती विलोचना भ्रमरी भृङ्गाङ्गनेव तच्चरणाम्भोज' प्रभुपादारविन्द चुचुम्ब चुम्बति स्म । नमस्करोति स्मेत्यर्थः । किं कृत्वा । इत्यमुना प्रकारेण पुरोऽत्रैवानुष्टुभां त्रिके वक्ष्यमाणप्रकारेण अभिनानूयातिशयेन स्तुतिं निर्माय । इति किम् । हे सूरीन्द्र हे आचार्यपर्जन्य, त्वं चिर गलितावधिसमय नन्द जयवान् प्रवर्तस्व पर्वतायुष्कवान् भवतात् । ' दुनदि समृद्धौ' अस्य धातो: प्रयोगत्वात् । ज्ञानदर्शनचारित्रादिकां समृद्धिं लभस्व वा जीया वा । त्वं किं कुर्वन् । लोकान् जगज्जनान् भाविनि भूतोपचारात् अमारिजीजियकादिकरवन्दिमोचनप्रकारेणाह्लाद' प्रमोद धर्मोपदेशप्रदानादिना भाविक लोकान् आनन्द लम्भयन् प्रापयन् क इव । भानुमानिव । यथा सहरस्रश्मिः केोकांश्चक्रवाकानाह्लाद लम्भयति । पुनः किंभूतः । दानलीलायितैः स्वविश्राणनविलसितैः कृत्वा कल्पभूरुहां सुरतरूणां हेलामवगणनां कल्पयन् कुर्वन् । अत्र गर्भितोपमा ।