________________
हीरसौभाग्यम्
[सर्ग ११ श्लो० ५४-५६
पयःपूरितप्रावृषेण्याम्बुदानामिव स्तोककैरुन्मुखत्वं दधानः ।
स्फुरद्वाग्विलासामृतं पातुकामैः पुरस्तात्प्रभोस्तैरगृह्यन्त वाचः ॥ ५४॥ तैः श्राद्धैः प्रभोर्गुरोः पुरस्तादग्रे वाचो वचनान्यगृह्यन्त आदत्ताः । किं कर्तुकामैः । स्फुरन्ती चित्ताह्लादकत्वेनोल्लसन्ती या वाग्वाणी तस्या विलासो वैचित्री स एवामृत सुधारसः तत्पातुमास्वादयितुं कामोऽभिलाषो येषां तैः । पुनः किं कुर्वाणैः । उन्मुखत्व गुरुवदनावलोकनार्थ किंचिदुच्चैः संमुखभाव दधानैर्धारयदभिः । कैरिव । स्तोककैरिव । यथा अमृत' पयोदपयः पातुकामैः अत एवोन्मुखत्वमुच्चैर्वदनतां चञ्चुपुटत्वं बिभ्राणैश्चातकैः पयोभिः सलिलैः पूरितानां भृतमध्यानां तथा प्रावृषेण्यानां वर्षाकालसंबन्धिनाम् । प्रावृषेरेण्यप्प्रत्ययः । अम्बुदानां मेघानां पुरस्तावाचो गृह्यन्ते । यदुक्तम्-'विलपति तृषा सारङ्गोऽयं त्वमुन्नतिमानहो जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः । उपकृतिकृते प्रहतेऽतः कुरुष्व यदग्रतो भ्रमति पवनः कस्त्व कोऽयं क्व ते जलबिन्दवः ॥' तथा 'एक एव खगो मानी चिरं जीवतु चातकः । षिपासितो वा म्रियते याचते वा पुरंदरम् ॥' इति ॥
બ્લોકાઈ
વર્ષાઋતુના જલપરિપૂર્ણ મેઘની સન્મુખ બનેલા ચાતકે જેમ અવાજ કરે તેમ હીરવિજયસૂરિની આગળ ઉલ્લાસયુક્ત વાણીના વિલાસરૂપ અમૃતનું પાન કરવાની ઈચ્છાથી રાજનગરના શ્રાવકે એ વાત કરવાને પ્રારંભ કર્યો. એ ૫૪ છે
सखीभूतदिक्सुभ्रवः सौविदल्लीकृतौदार्यधैर्यादिभास्वद्गुणौघान् । चतुर्वीचिमत्खातिके रत्नगर्भावरोधेऽनिशं वासयन्कीर्तिदारान् ॥ ५५ ॥
विपक्षान्विपक्षक्षमाभृत्सहस्रान्सृजन्मुद्गलाखण्डलः पूर्वदेशे ।
विभो वर्ततेऽकब्बरो द्रष्टुकामः किमाशां निजामुग्रधन्वावतीर्णः ॥ ५६ ॥ हे विभो हे गुरो, पूर्वदेशे इतः पूर्वस्यां दिशि मेवातमण्डले अकब्बरनामा मुद्गलानां यवनजातिविशेषाणां काबिलजनपदजन्मनामाखण्डलो वासवो वर्तते । उत्प्रेक्ष्यते-निजामात्मीयामाशां दिशं प्राची द्रष्टुं स्वचक्षुषा निरीक्षितुं कामोऽभिलाषो यस्य तादृशः । उग्र प्रबलं द्वेप्यैरधृष्यं धन्य देवायुध शक्रधनुर्वा स्वाभाविकोदण्डो वा यस्य स उग्रधन्वा शक्र इवावतीर्णः क्षोणीमण्डल इवाजगाम । किं कुर्वत् । विपक्षा वैरिणः अथ वा बिशिष्टाः पुत्रपौत्रमित्वनातृस्वज़नानिकादिकाः पक्षा येषां तादृग्विधा ये क्षमाभृतो भूपतयः । अथ