SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सर्ग ११ श्लो ० ४९-५२] हीरसौभाग्यम् १८३ अथ मुहूर्तवासरागमनानन्तरं भूमेः क्षोणीलक्षम्याः शृङ्गारे मण्डनायमाने भूषाभूते गन्धार इति संज्ञां नाम यस्य तादृशे पुरे प्रभुं हीरविजयसूरि वन्दितुं नमस्कर्तु ते पूर्वप्रोक्ताः श्राद्धलोकाः श्रावकजनाः प्रचेलः प्रतिष्ठन्ते स्म । किं कृत्वा । वाद्यानि रथादिनी वाहनान्यारुह्याध्यास्य । किंभूताः । प्रीतिमन्तः प्रमोदमेदुराः । क इव । स्वर्गिवर्गा इव । यथा क्षोणिपीठे भूमीमण्डले जिनं तीर्थनायकं नेतु नमस्यितु सिंहगजाश्वफणिगरुडादी नि स्वस्वायनान्यध्रिरुह्य देवाः प्रचलन्ति व्रजन्ति | પ્લેકાર્થ જેમ પૃથ્વીમંડળ પર જિનેશ્વર ભગવાનને નમસ્કાર કરવા માટે સિંહ, ગજ, અશ્વ સર્ષ અને ગરૂડ આદિ વાહન પર સ્વાર થઈને દેવે જાય તેમ આચાર્યશ્રીને નમસ્કાર કરવા માટે હર્ષ પૂર્વક રથ આદિ વાહન પર આરૂઢ થઈને પૃવિમંડલના આભૂષણરૂપ गधार ना२ त२६ यादया. ॥ ४ ॥ शिवश्रीविवाहोत्सुकीभूतचित्तैर्यथा यात्रिकैः सिद्धधात्रीधरस्य । प्रयाणैरभूयःप्रमाणैरमीभिः समीपे शमीन्दोः समागम्यते स्म ॥५०॥ अमीभिः श्राद्धर्न विगते भूयो बहु प्रमाणं येषां तादृशैः प्रयाणैर्निशावासादिलक्षणैः प्रीतिदिनप्रचलनैः शमीन्दोः सूरेः समीपे पावें गम्यते स्म समागतम् । यया यात्रिकैविविधतीर्थयात्राविधायकैर्जनः स्तोकमानरल्पप्रमाणैः सिद्धधात्रीधरस्य श्रीशत्रुजयशैलस्य संनिधाने गम्यते । किंभूतैः श्राद्धैः यात्रिकैश्च । शिवश्रिया मुक्तिलक्ष्म्या विवाहे पाणिग्रहणकरणे उत्सुकीभूतमुत्कण्ठितं चित्तं मनो येषां तैः ॥ इति गन्धारे श्राद्धानां गमनम् ॥ શ્લેકાર્થ મુકિતરૂપી કન્યાનું પાણિગ્રહણ કરવામાં ઉત્સુક ચિત્તવાળા યાત્રિકે અવિરત પ્રયાણવડે શત્રુંજ્ય પર્વતની સમીપે પોંચે તેમ રાજનગરનાં શ્રાવકે હર્ષપૂર્વક અવિરત પ્રયાણવડે આચાર્ય મહારાજની સમીપે પહોંચ્યા. . ૫૦ છે स्फुरब्दाहुशाखः सपाणिप्रवालः प्रबर्हश्रियं बिभ्रदभ्रान्तशोभाः। नखानूनसूनाचिरुद्यन्मरन्दो नमनागरीनेत्रविभ्राजिभृङ्गः ॥ ५१॥ द्विजोद्भासितः सिद्धिसस्यैकधारी भवग्नीष्मतिग्मांशुतापापहारी। शिवाघ्वन्यसंसेव्यमानो न्यभालि व्रतीन्द्रोऽध्वशाखी स तैः पौरपान्थैः ॥ ५२ ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy