________________
१७४
हीरसौभाग्यम्
[सर्ग ११ श्लो० ३०-३२
वैरिणां चक्रे वृन्दे सेनायां वा । 'वरूथिनीचमूचक्रम' इति हैम्याम् । युगान्तस्य कल्पान्तकालस्यान्धकनाम्नो दानवस्य द्वेषिणा शत्रुणेव एतावता शंभुनेव जज्ञे संजातम् । संहारकत्वेन बभूवे इत्यर्थः । 'क्षये जगज्जीवपिबं शिव वदन' इति नैषधे । पुनर्भू भुजः प्रजाः प्रकृतयो लोकाः प्रजावत्संततय इव प्रीतिं प्रमोदं स्नेहं वा भजन्ते इति प्रीतिभाजः सन्ति । अधीशः अकमिपुरप्रभुः इत्यमुना प्रकारेण तो दूतौ प्रश्नयामास पृच्छति स्म ॥ इति साहिबखानकृतसाहिपरिवारादीनां कुशलप्रश्नः ॥
શ્લેકાર્થ
હે કૂતે, બાદશાહની સર્વદેશ પ્રસિદ્ધ ચતુરંગી સેના કલ્યાણમતી છે ને ? જે સેનાએ, જેમ ઈશ્વરે કપાનકાલના અંધક નામના દૈત્યને સંહાર કર્યો હતો. તેમ દુશમનની સેનામાં પ્રલયકાળને સંહાર થયા હતા. વળી તે દૂત, બાદશાહની સંતતિની જેમ પ્રીતિવાળી પ્રજા પણ આનંદમાં છે ને? આ પ્રમાણે સાહિબખાને દૂતને विविध प्रश्न पूछया. ॥ ३० ॥ स्थितोऽद्रिः सुराणामिवाक्रम्य सर्वा दिशः साहिरास्ते प्रभो पर्वतायुः । सुताः शक्तिभेदा इव स्फूर्तिमन्तः सुखिन्यः सुमुख्योऽपि किं राजलक्ष्म्यः ॥ ३१ ॥
कुले धैर्यभाजामिवाधीश साहेः परीवारतन्त्रे अनातङ्किनी स्तः॥ महानन्दयुक्ताश्च मुक्तात्मवत्तत्प्रजा इत्यमुं तवयं प्रत्यवोचत् ॥ ३२ ॥
तदद्वयं दूतयुग्मम् अमु साहिबखान प्रति इत्यमुना प्रकारेण प्रत्यवोचत् प्रतिभाषते स्म । प्रत्युत्तरं प्रददावित्यथ: । हे प्रभो हे साहिबखान, साहिरकब्बरः पर्वतवदद्रिरिव दीर्घमायुर्यस्य तादृगास्ते । किंलक्षणः । सुराणामद्रिरुरिव सर्वाः समस्ता अपि दिशः आक्रम्य स्वीकृत्य स्थितः । पुनः सुता: साहिपुत्राः प्रभुत्वोत्साहमन्त्रलक्षणानां तिसृणां शक्तीनां भेदा इव स्फूर्तिमन्तः प्रोजस्वलाः सन्ति । अपि पुनः सुमुख्यः साहिगृहिण्यः सुखिन्यः सन्ति । उत्प्रेक्ष्यते-सुमुख्यो राजलक्ष्म्य इव । प्रबलप्रतिभटाभावात राजलक्ष्म्यः सुखिन्यो भवेयुः । हे अधीश हे स्वामिन, साहेः परीवारतन्त्रे परिच्छदसैन्ये । 'कटक ध्वजिनी तन्त्रम्, इति हैम्याम् । अनातङ्किनी नीरोगे समाधिशालिनी । के इव । कुले व । यथा धैर्यभाजां धीरताधारिणां सत्त्ववताम् । महावीराणामित्यर्थः । गोत्रे वंशो अनातङ्किनी निर्भये भवतः । 'रोगो रुजारुगान्तष्कः,' तथा 'भय भीéतिरातङ्कः' इति द्वयमपि हैम्याम् । च पुनस्तस्य साहेः प्रजाः पौरजानपदाश्च लोका महानन्देन परमालादेन . युक्ताः सहिता वर्तन्ते । किंवत् । मुक्तात्मवत् । यथा संसारनिर्मुक्तात्मानः सिद्धाः महान न्देन मोक्षेण सहिता भवन्ति ॥ इति दूतप्रोक्तसाहिप्रमुखकुशलोक्तिः ॥ युग्मम् ॥