________________
५८
हीरसौभाग्यम् [सर्ग १ श्लो० १०६-१०७-१०८
શ્લોકાઈ જેમ સજજનપુરપ પોતાની ઉજવળ કીર્તિ વડે સમસ્ત દિશાઓને વાસિત કરે છે તેમ કુંકુમ, કાલાગુરુ, (ધ૫) ચંદન, કસ્તૂરી અને કપૂર આદિ સુગંધી પદાર્થોવો આ નગરીની દુકાનોએ સમરત દિશાઓને સુવાસિત કરી. It
यदापणश्रेणिषु सान्द्रचान्द्र-क्षोदेषु गाङ्गास्विव वालुकासु । मौग्ध्येन नीलैरिव काचगोलैः, क्रीडन्ति डिम्भाः स्फुरदिन्द्रनीलैः ॥१०७॥
यदापणश्रेणिपु पुरीविपणिपङ्क्तिपु डिम्भा महेभ्यवालकाः क्रीडन्ति रमन्ते । केषु। सान्द्रचान्द्रक्षोदेषु स्निग्धेषु निबिडेषु वा कर्पूराणां चूर्णेषु । केन । मौग्ध्येन ज्ञानेन । काविव । वालुकास्विव । यथा गाङ्गासु गङ्गासंबन्धिनी पुलिनसिकतासु कुमाराः क्रीडन्ति, तथैव घनसारचूर्णेषु रमन्ते इति कर्पूरपारीप्राचुर्यात्तत्क्षोदास्तु बहिः क्षिप्यन्ते । कैः । स्फुरन्तो दीप्यमाना ये इन्द्रनीला नीलमणयो मरकतरत्नानि तैः । कैरिव । काचगोलैरिव । यथा-शिशवः काचानां क्षारमृद्विकाराणां गोलैर्गुटकैः शङ्खा इति प्रसिद्धैः खेलन्ति । किंभूतैः । नीलैर्हरिद्वर्णैः । अनेन विशेषणेन मणिरत्नवाहुल्यमपि प्रतिपादितम्॥ इति हट्टाः॥
કલેકાર્થ જે નગરીની દુકાનની શ્રેણિઓમાં પડેલા ગંગાની રેતી જેવા રિનધ અને ગાઢ કપૂર ચૂર્ણના ઢગલાઓ ઉપર બાલક નીલવર્ણના કાચના ગોળાની જેમ દેદીપ્યમાન એવા ઇન્દ્રનીલમણીના ગોળાઓવડે, સમજપૂર્વક કીડા કરે છે. (આ વિશેષણથી નગરીમાં મણી અને રત્નની બહુલતા બતાવી છે.) 11०७॥
यच्चान्द्रचामीकरवेश्मचन्द्र-चण्डाषिौ गर्भगताङ्गिरावैः । मिथः किमित्युम्नयतोऽभियातिर्जेयः कथं राहुरजय्यवीर्यः ॥१०८॥
यस्याः पुर्याश्चान्द्राणां चन्द्रकान्तमणीनां चान्द्राणां सौवर्णानाम् । 'चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ करे कम्पिल्ले मेचकेऽपि च' इत्यनेकार्थः । [चामीकराणां सौवर्णानाम् ) चन्द्रोपलैः स्वर्णैश्च घटिते क्वापि वेश्मनि गृहे एव चन्द्रचण्डर्चिषौ विधुभास्करौ तौ गर्भे गृहमध्ये गतानां प्राप्तानामगिनां मनुष्याणां रावैमिथोवार्तादिशब्दैः मिथः परस्परमित्यमुना प्रकारेण । किमुत्प्रेक्ष्यते-उन्नयतः किमु । विचारयत इव । 'वितर्कः स्यादुन्नयन परामशों विमर्शनम् ' इति हैम्याम् । इति किम् । यत् अजय्य जेतुमशक्य वीर्य पराक्रमो यस्य तादृशो राहरभियातिः शत्रुः । कथं केन प्रकारेण आत्मभ्यामावाभ्यां वा जेयो जेतव्यः । पराभवगोचरीकर्तव्य इति ॥