________________
५६
हीरसौभाग्यम् [सर्ग १ श्लो० १०२-१०३-१०४ स्थायुकया । 'सदा सनानिश शश्वत्' इति हैमीवचनात् । श्रिया अद्वैतशोभया विष्णु. लक्ष्मीभ्यां च वर्तते यः । 'दामोदरः शौरिसनातनौ विधुः' इति हैम्याम् । स च पुनः किंभूतः । कपाटावेव तत्तुल्यौ पक्षौ यस्य सः । स च पुनः कि भूतः । सुवर्णस्य हेम्नः कायोऽङ्ग यस्य स हिरण्मयः । पुनः किं कुर्वाणः । गगनमाकाशमुच्चैस्त्वेन भ्रमणेन च विगाहमानः स्वगोचरीकुर्वाणः ॥
પ્લેકાર્થ આ નગરીનો કિલે ગરુડની સાથે તુલના કેમ પ્રાપ્ત ના કરી શકે? અર્થાત કરી શકે છે. કિલ્લાની શાભા અવિનશ્વર છે, ગરુડ, વિષ્ણુ અને લક્ષ્મી સહિત છે. દિલે કમ છે. ગરુડની પાંખો કપાટ તુલ્ય છે. કિલો અને ગરુડ બંનેની સુવર્ણમય કાયા છે. ગરુડ આકાશમાં ભ્રમણ કરે છે. કિલ્લો અતિઉન્નત હોવાથી આકાશને અવગાહીને રહે છે. આ કિલો ગરુડની સાથે સમાનતા ધારણ કરે છે. ૧૦૨
मणीघृणिश्रेणिधुतान्धकारै-रभ्र कौर्यत्कपिशीर्षकौधैः ।
याऽनश्वरोदित्वरकर्मसाक्षि-लक्षेव पूर्दक्षजनैरलक्षि ॥१०३।।
दक्षजनैविदग्धलोकर्या प्रह्लादनपुरी अनश्वराः शाश्वता उदित्वरा उदयशीलाः कर्मसाक्षिणो भास्करास्तेषां लक्षाः शतसहस्राणि यस्यामेवंविधवाऽलक्षि दृश्यते स्म । कैः । अभ्रकषैगर्गनोल्लेखिभिर्यत्कपिर्शीर्षकाणामहालकानामोंधैः समूहैः। कि भूतैः । मणीघृणीनां रत्नकान्तीनां श्रेणीभी राजीभिधूतानि दलितान्यन्धकाराणि यैः ॥
टोअर्थ રત્નોની કાંતિની શ્રેણીઓ વડે જેણે અંધકારને નાશ કરી નાખ્યો છે, અને આકાશને સ્પર્શીને રહેલા એવા કાંગરાઓના સમૂહોથી નિરંતર ઉદયશીલ લાખો સૂર્યોવાળી હોય તેવી જે મેરી નગરવાસી ચતુર પુરુષવડે જોવાઈ ૧૦૩
चन्द्राश्मवेश्मस्मितमुद्वहन्ती, कटाक्षयन्ती सितकेतनैश्च ।
युवेव जायां नगरीमिवैतां, क्रोडीकरोति प्रणयेन वप्रः ॥१०४।।
वप्रः प्राकारः प्रणयेन स्नेहेन । 'प्रणयः स्नेहयाञ्चयोः । विनम्मे प्रसरेऽपि च' इत्यनेकार्थः । उत्प्रेक्ष्यते-एतां नगरी क्रोडीकरोति आलिगतीवेत्युत्प्रेक्षा । 'आलिङ्गनं परिष्वङ्गःपरीरम्भः क्रोडीकृतिः' इति हैम्याम् । वास्तवार्थे तु मध्येकरोति इत्यर्थः । क इव । युवेव । यथा युवा तरुणः स्नेहेन 'जायां पत्नी क्रोडीकरोति परिरम्भते । कि भूतां पुरी जायां च । चन्द्राश्मवेश्यानि विधुकान्तरत्नघटितगृहाणि तान्येव तत्तुल्य च स्मित हसितमुद्वहन्ती विभ्रतीम् । पुनः कि भूताम् । सितकेतनैरुज्ज्वलपताकाभिः कृत्वा कटाक्षयन्ती कटाक्षान्सृजन्ती मुञ्चन्तीम् । 'कटाक्षाः कृष्णाः श्वेताश्च वर्ष्याः' इति काव्यकल्पलतायाम् ॥ इति प्राकारः ॥