________________
मर्ग ८ श्लो० १११-११२ ] हीरसौभाग्यम्
शशी सुधां प्रेक्ष्य निपीयमानां, सुरैः सृजंस्तत्र ममत्वमन्तः । . ररक्ष निक्षिप्य रहो रसज्ञा-पाच्यामिवैतां कृतयन्मुखाङ्गः ॥१११।।
. शशी शशधरो विधुः एतां स्वसुधां रह एकान्तस्थानस्थितायां रसज्ञा देवीरसना सैव पात्री भाजनविशेषस्तस्यां निक्षिप्य स्थापयित्वा । उत्प्रेक्ष्यते-ररक्षेव गोपायति स्मेव रक्षितवानिव । किंभूतः शशी । कृतं स्वेनैव निष्पादित स्वात्मनैव विरचितं यस्या देव्या मुख वदनमेव अङ्गशरीर येन । शशी किं कुर्वन् । अन्तश्चित्तमध्ये तत्र स्वसुधाविषये ममत्वम् इयं सुधा मया यथाकथंचिद्रमणीयवेति । मम इत्यस्य भावो ममता तां मोहमूर्छा सृजन् कुर्वन् । किं कृत्वा । सुरैः सुधाशनैः निपीयमानां पीत्वा पीत्वा निष्ठाप्यमानाम् । यदुक्तम्-'विरहिवर्गवधव्यसनाकुल कलय पापमशेषकल विधुम् । सुरनिपीतसुधाकमपापकम्' इति नैषधे । सुराश्चन्द्रमसः सुधां पिबन्ति इति सुधां निजा. स्थायुकपीयूष प्रेक्ष्य विलोक्य ॥ ..
લોકાઈ સ્વયં જેણે દેવીનું મુખ બનાવ્યું છે, તેવા ચ, દેવડે પીવાતી ( પીવાઈ-પીવાઈને ખલાસ થતી) પોતાની સુધા (અમૃત)ને જોઈને, મારે મારી સુધાનું યેન-કેન પ્રકારેણ રક્ષણ કરવું જોઈએ આવા આંતરિક વિચારથી દેવીની જીભરૂપ ભાજનના એકાંત સ્થાનમાં જાણે સુધાને રાખી દીધી ન હેય ! ૧૧૫
— यस्या रसज्ञां जयिनीं निभाल्य, शोणच्छदं ततुलनाविलासम् ।
पितामहं प्रार्थयते स्वताता-रविन्दगेहे निवसन्तम्हे ॥ ११२॥. .. शोणच्छद रक्तोत्पलपत्रं पितामहं जनकजनक धातार च प्रति अहमेवमूहे वितर्कयामि । तत्तुलनाविलास तस्या देवीरसशायास्तुलनां सादृश्यं तस्य विलास वैचित्र्य लीलां वा । 'असकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः' इति चम्पूकथायाम् । 'निरन्तरसु. धारसाविष्कारिणो वाग्लिासा वचनवैचित्र्ये' इति तट्टिप्पन(ण)कम् । प्रार्थयते याचतीव । ण्यन्तत्वाद्विकर्मत्वम् । पितामह किं कुर्वन्तम् । स्वस्यात्मनः स्वजन्मकर्तृत्वेन तातो जनकोऽरविन्दः पन्नः स एव तत्र वा गेहं मन्दिर तत्र निवसन्त निवास कुर्वन्तम् । पतावता संबन्धो जातः संबन्धे च प्रार्थना फलेग्रहिः स्यादिति किं कृत्वा प्रार्थयते । यस्या देवताया जिह्वां रसज्ञां जयिनी निजजयनशीलां निभाल्य निरीक्ष्य ॥...
લોકાઈ
પિતાનો જ્ય કરનારી એવી દેવીની છવા જોઈને રક્તકમલના પત્રે પોતાના પિતા અરવિંદ (મેલ)ના મંદિરમાં વાસ કરતા પિતામહ બ્રહ્મા પાસે જવાની સમાનતા પ્રાપ્ત કરવાની પ્રાર્થના કરી! ૧૧૨