________________
५२४
हीरसौभाग्यम् [सर्ग ८ श्लो० ३६-३८ जधे यदीये प्रणयन् प्रयत्नात, प्रकाण्डसारं पृथिवीरुहाणाम् ।
जग्राह धाता किमभावि तेषु, ततः स्फुरत्कोटरकूटरन्त्रैः ॥ ३६ ॥ यस्या इमे यदीये देवतासंबन्धिन्यौ जङ्धे प्रयत्नात्सादरादेकतानतया वा एकाग्रमनसा प्रणयन्कुर्वन् सन् धाता जगत्कर्ता पृथिवीरुहाणां रमणीयसान्द्रद्रुमाणां प्रकाण्डानां सारं सारदलिकपटलं जग्राहाददे गृहीतवान् । उत्प्रेक्ष्यते-ततः सारवस्तुग्रहणानन्तर तेषु प्रकाण्डेषु तरुस्कन्धेषु स्फुरन्तः प्रकटीभवन्तो ये कोटराः निष्कुहाः । 'पोलाडि' इति लोके प्रसिद्धाः । त पव कूट कपट येषां तादृशै रन्धैश्छिद्रेरभावि भूतम् । संजातमित्यर्थः ॥ इति जाधे ॥
લેકાર્થ શાસનદેવીની બે જંધાનું આદરપૂર્વક ધ્યાન કરતા બ્રહ્માએ રમણીય વૃક્ષોના સ્કંધના સાર તને ગ્રહણ કર્યા, તેથી કધમાં પ્રગટ થયેલા કોટ (પિલાણ ) રૂપી કપટ છે જેઓનું, તેવાં દ્ધિો બની ગયાં ન હોય ! (સાર તત્વ લઈ લેવાથી તે કંધોમાં છિદ્ર પડી ગયાં હતાં !) :
कपोलयुग्मेन मरुधुवत्याः-स्तिरस्कृते दर्पणिके विभूत्या । ___ गुप्त स्थिते जानुनिभादुपेत्य, जेतुं द्विष छिद्रदिदृक्षयेव ।। ३७ ॥
दर्पणिके आदर्शिके । 'यन्मतौ विमलदर्पणिकायाम्' इति नैषधे। उपेत्य । कुतश्चिदागत्य गुप्त छन्न स्थिते तिष्ठतः स्म । कस्मात् । जान्वोर्जानुनो रूपवर्ण योनिभादम्भात् । अर्थात् तद्देवीवपुप्येवोषिते । उत्प्रेक्ष्यते-द्विष स्वशात्रव जेतु पराभवितु छिद्राणां वैरिणोरपगुणानां दोषाणं यैर्गवेषितैदोषैः स्वद्वेषी सुख निमेषमात्राग्निहन्यते निर्जीयते वा । तद्रन्ध्राणां दिक्षया द्रष्टुमिच्छयेव । तथा दोषे शाते सति शत्रुः सुखेन पराभूयते इति लोकेऽपि प्रसिद्धिः । तस्मात् किंलक्षणे दर्पणिके। मरुधुवत्याः गीर्वाणगृहिण्याः। शासनदेव्या इत्यर्थः । कपोलयुग्मेन गल्लयामलेन विभूत्या स्वीयवैभवेन कृत्वा तिरस्कृते तिरस्कार न्यकार प्रापिते । पराभूते इत्यर्थः । गुप्तमिति विशेषणात् दृश्यते । 'निगूढजाणु-' इति कल्पसूत्रेऽपि लक्ष्मीवर्णने ॥
શ્લેકાર્થ શાસનદેવીના કપલ-યુગ્મની વિભૂતિવડે તિરસ્કાર પામવાથી શત્રુભાવને ધારણ કરતા બે દર્પણ, શત્રુને સુખપૂર્વક જીતી શકાય તે માટે. શત્રુના છિદ્રને જવાની ઈચ્છાથી બે જાનુ હીંચણ)ના બહાને જાણે ગુપ્ત બનીને રહ્યા ન હોય ! | ૩૭ છે
आदर्शिकाघानि मिथो मृधेषु, यज्जानुना स्पर्धितया स्वकान्त्या । ततः किमु प्रापदतुच्छमूर्छा, न चेदचैतन्यवती किमेषा ॥ ३८ ॥