________________
५१६
सौभाग्यम्
[ सर्ग ८ श्लो० २०-२२
સ્નેહથી મળવા માટે આવ્યા ન હેાય ! અથવા જાણે ભવાંતરમાં પણ આ શાસનદેવીના ચ:ણુરૂપ થવાને સ્વભાવિક લાલાશના બહાને અનુરાગ પ્રગટ થયેા ન હોય ! ॥ ૨૦ ॥
प्रपेदुषीं यत्पदतां पयोज - द्वयीं विभाव्यार्भकशीत भासः । निजानुरज्यन्मनस प्रणेतुं नखीबभूवुः किमु तत्त्रिदश्याः ॥ २१ ॥
"
अर्भकशीतभासो बालचन्द्राः । तेषां चारुणत्वं कविसमये दृश्यते । यथा - 'अयमुदयति घुसणारुणतरुणीवदनोपमश्चन्द्रः' इति विदग्धमुखमण्डने, तथा - 'स्फुरदम्भःसरोदम्भात्सैंहिकेयभयादिव । राकामृगाङ्काः संभूय विभान्ति शरणागताः ॥' इति पाण्डवचरित्रे च चन्द्रबाहुल्यं प्रोक्तमस्तीति । तथात्रापीदं द्वयमपि उद्यतां चन्द्रसूर्याणां बालत्वमेव प्रतिपद्यते । तस्त्रिदश्याः सा सूरिध्यानाकृष्टा गता वासौ त्रिदशी च त्रिदशवशा तस्या नखीबभूवुः तत्पदपुनर्भवभावं भजन्ते स्म । देवतानखा जाता इत्यर्थः । किं कृत्वा । यत्पदतां तत्त्रिदशचरणभावं प्रपेदुष प्राप्तवर्ती पयोजयोः कमलयो ईयीं युगलीं विभाव्य चक्षुषा समीक्ष्य । उत्प्रेक्ष्यते - तां पद्मद्वितयीं निजे स्वात्मनि विषये अनुरज्यत् सरागीभवत् । 'चकास्ति रज्यच्छविरुज्जिहानः' इति नैषधे । मनः स्वान्तं यस्यास्तादृशीं प्रणेतुं किमु कर्तुमिव । 'सृजति करोति प्रणयति' इत्यादिकरणार्थाः क्रियाकलापे ॥
લેાકા
દેવીના ચરણુરૂપે બનેલા કમલયુગલને જોઇને બાલચંદ્રો શાસનદેવીના નખારૂપે બન્યા ! શા માટે ? પેાતાનામાં અનુરાગી મનવાળા કમલયુગલને નમસ્કાર કરવા માટે જાણે બાલચો નખરૂપ अन्यान होय ! ॥ २१ ॥
सौन्दर्य पाथः लवपादपद्मा-करेऽगुलीनालजुषोऽनिमिष्याः ।
कामाकुशाः शोणसरोजराज्यो, ज्योतिर्मरन्दोपचिता इवाबभुः || २२ ||
अनिमिष्या देवतायाः नखा अनुरागा भान्ति स्म । अयं प्रयोगः क्रियारत्नसमुच्चयेऽप्यस्ति । उत्प्रेक्ष्यते - शोणसरोजराज्यः कोकनदपक्तय इव । कस्मिन् । सौन्दर्य मनोहरत्वं तदेव पाथसां पानीयानां प्लवः पूरो यस्मिंस्तादृशे पादे चरणरूपे पद्माकरे सरसि । चरणे त्वाकृतिकमलानां सद्भावात् कमलाकरत्वम् । किं शोणसरोजराज्याः । अङ्गुल्यः पादशाखास्ता एव नाला मृणालानि जुषन्ते भजन्ते । पुनः किंभूताः । ज्योतींषि नखकान्तयः पव मरन्दा मधूनि तैरुपचिताः पुष्टाः । भृता इत्यर्थः ॥ इति पदनखाः ॥
શ્લાકાર્થ
શાસનદેવીના લાલ નખા, સૌદર્યાંરૂપ જલપ્રવાહવાળા ચણુરૂપી પદ્મસરાવરમાં, આંગળીરૂપ