________________
४६४
हीरसौभाग्यम् [सर्ग ७ श्लो०६-८ तीनां नृपाणां कामित्त समीहित संपिप्रती संपूरयन्ती पूर्ण प्रणयन्ती । 'पृ पालनपूरणयोः' इत्यय धातुः । उत्प्रेक्ष्यते-अस्य हीरविजयनाम्नः सूरेभट्टारकस्य प्रणिधानसिद्धविधित्सया कर्तुमिच्छयेवागता ॥
શ્લેકાર્થ દિવિજય કરવા ઈચ્છતા રાજાઓની ઈચ્છાઓ પૂર્ણ કરતી શરદઋતુ ઉપસ્થિત થઈ. તે શરદઋતુ આચાર્ય મહારાજની પ્રણિધાનસિધ્ધ કરવા માટે જાણે ન આવી હોય ! | ૬ |
मलीमसीभूतमशेषमभ्र-मातङ्गसङ्गेन पदं मुरारेः ।
द्विजाधिपः क्षालयतीव यस्यां, निस्तन्द्रचन्द्रातपनीरपूरैः ॥ ७ ॥ यस्यां शरदि द्विजाधिपो ब्राह्मणश्रेष्ठः शशभृच्च । उत्प्रेक्ष्येते-निस्तन्द्रो मेघानहिमधूमप्रमुखनिर्मुक्तत्वेन निर्मलो यश्चन्द्रातपश्चन्द्रिका तत्तुल्यविशदैर्नीरपूरैः। गङ्गोदकसमुः दायैरित्यर्थः । पक्षे । ज्योत्स्नैव जलप्लवैः कृत्वा मुरारेर्नारायणस्य पदं स्थान चरण च नभः क्षालयति धावयतीव । किंभूत पदम् । मलीमसीभूत अपावन जातम् । केन । अभ्रस्याकाशस्य मातङ्गश्चाण्डालस्तस्य । अथवा गगनमातङ्गेन समं संगमेन अथवा अभ्रे आकाशे पर्वताद्युच्चस्थाने श्वपाकेन सम संगमेन कृत्वा अस्पृश्यभावमभ्युपगतम् । मातङ्गस्पृष्टं हि वस्तु जलेन शुध्यतीतिजनप्रतीतिः। पक्षे । अभ्रमातङ्गैर्मेधैः । 'नभसः कलभैरुपासितम् , इति नैषधे । 'नभसः कलभैर्मेधैः । इति तद्वृत्तिः। मलीमसीभूत श्यामल संजात घनान्धकारमयीभवनात् । 'दिवापि थ्रयमाणरजनीशङ्काकुलचक्रवाकचक्रशि' इति चम्पूकथायाम् । मलिनीभूत हि जलैः क्षालयित्वा निर्मली क्रियते इत्यपि लोकरूढिः । तत्त्वतस्तु ऐरावणगजकलित जातम् । 'प्रावृषेण्य पयोवाह विद्युदैरावताविव' इति रघुवंशे । पुनः किंभूतम् । अशेषं संपूर्णमप्याकाशं वस्तुतस्तु चन्द्रचन्द्रिकया नभो धवलीक्रियते । 'आप्लावितामिव मुक्तमर्यादेन दुग्धवारिधिना विलिप्तदिग्भित्तिकमिव सान्द्रसुधापङ्कपिण्डैः प्रविष्टमिव स्फटिकमणिमहामन्दरोदरदरीषु भुवनमासीत् इति चम्पूकथायाम् । चन्द्रोदये सर्व श्वेतीक्रियते ॥
सोडा જેમ કેઈ શ્રેષ્ઠ બ્રાહ્મણ શ્યામ માતંગ (ચંડાળ)ના સંગથી અસ્પૃશ્ય (અપવિત્ર) બનેલા વિષ્ણુના મંદિરનું નિર્મલ ચંદ્રિકા સમાન ઉજ્જવલ ગંગાજલથી પ્રક્ષાલે છે અર્થાત પવિત્ર કરે છે. તેમ શરદઋતુમાં ચંક, સમસ્ત વાદળારૂપી–માતંગના સંગવડે શ્યામ બની ગયેલા આકાશને. ર૭ ચંદ્રિકારૂપી પાણીના પ્રવાહથી જાણે પવિત્ર કર ન હોય ! | ૭ |
गाधा व्यधाद्याम्बरचुम्विरङ्ग-त्तरङ्गपूरानपि सिन्धुदारान् । जगत्प्रसारोत्सुकयद्यशःक्ष्मा-धरस्य किं सुप्रतराः प्रणेतुम् ॥ ८ ॥ .
या शरत् अम्बरमाकाशं चुम्बन्ति आलिङ्गन्ति इत्येवंशीलाः, तथा रगन्त उपर्युपरि