________________
सर्ग १ श्लो० ३३-३४-३५] हीरसौभाग्यम्
_ विधुपद्मपाणी चन्द्राको यत् श्रीशङ्खेश्वरपार्श्वविम्वमात्मधाम्नोः स्वगृहयोनिजविमानयोर्वा नीत्वा आनीय आर्चतां पूजयतः स्म । कि कृत्वा । अथ कियत्काल पूजनात्त तेन शक्रेण सौधर्मेन्द्रेण गिरिनारिगे रैवताद्रेः काञ्चनवलानकाख्यशिखरे मुक्त स्थापितम् अर्थाद्यत्पार्श्वविम्ब सुराणां माणिक्यमिव चिन्तारत्नमिवाधिगम्य संप्राप्य । विधुपद्मपाणी किं कुर्वाणी । ईहमानौ काङ्गन्तौ । काम् । निर्वृति मुक्ति सुखं च ।
બ્લેકાર્થ ત્યાર પછી સૌધર્મેન્દ્ર ગિરનાર પર્વતના “કાંચનબલાનક' નામના શિખર ઉપર સ્થાપન કરેલી શ્રીશંખેશ્વર પાર્શ્વનાથની મૂર્તિને-ચિંતામણી રત્નની જેમ પ્રાપ્ત કરી મોક્ષસુખને ઇચ્છતા ચંદ્ર અને સૂર્યો તિપિતાના વિમાનમાં લઈ જઈને પૂછ. ૩૩
ताभ्यां ततः स्थापितमुज्जयन्ते, पार्श्व स्वसर्वस्वमिवावसाय ।
आखण्डलः कुण्डलिनां क्रमेण, सभाजनायानयदात्मधाम्नि ॥३४॥
कुण्डलिनां भुजङ्गानामाखण्डलः पुरंदरो नागेन्द्रः क्रमेण कियता कालेन श्रीपार्श्वविम्ब सभाजनाय पूजनार्थम् । 'सभाजन तत्र ससर्ज तेषां, सभाजने पश्यति विस्मिते सा' इति नैषधे । 'सभाजन पूजनम् ' इति तद्वृत्तिः । आत्मधाम्नि स्वमन्दिरे आनयदानयति स्म । किं कृत्वा । अवसाय ज्ञात्वा । कम् । पार्श्वनाथम् । पुनः पूर्ववदेव ताभ्यां चन्द्रार्काभ्यामुजयन्ते रैवताचले स्थापित न्यासीकृतम् । किमिव । स्वसर्वस्वमिव स्वस्यात्मनः सर्वद्रव्यनिधिमिव ॥
લોકાર્થ ત્યાર પછી ચંદ્ર અને સૂર્ય શ્રી પાર્શ્વનાથ ભગવાનની પ્રતિમાને પોતાના સર્વરવ સમાન (સર્વદ્રવ્યનિધિની જેમ) જાણીને ગિરનાર પર્વત ઉપર સ્થાપના કરી. કેટલાક સમય પછી ધરણે તે પ્રભુની પ્રતિમાને પૂજન માટે પોતાના નિવાસસ્થાનમાં લાવ્યા. ૩૪
गिराथ नेमेररविन्दनाभि-रुपास्य पद्माप्रियमष्टमेन । आनाययत्तेन जिन तमात्म-द्विषजयं मूर्तिमिवाश्रयन्तम् ॥३५।।
अथ कियत्कालपूजनानन्तरमरविन्दनाभिर्नारायणो नेमेः श्रीनेमिनाथस्य गिरा वाचाष्टमेनाष्टमभक्तेन पद्माप्रिय पद्मावत्याः प्राणनाथ धरणेन्द्रमुपास्य आराध्य तेन धरणेन्द्रेण त पूर्वव्यावर्णितस्वरूप जिन पार्श्वनाथमानाययत् । उत्प्रेक्ष्यते-मूर्ति शरीरमाश्रयन्तमात्मनः स्वस्य द्विषतां वैरिणां विजयमिव । 'अरविन्दनाभिः' इति माघकाव्ये ।