SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ -४२२ हीरसौभाग्यम् [सर्ग ६ श्लो० ९९-१०१ ते शकुनावलोकका निमित्तवेदिनः गुरोविजयदानसूरेः पुरोऽने इत्यमुना प्रकारेण न्यगदन् कथयन्ति स्म । हे गुरो, भुवि पृथिव्यां कुंराङ्गजवाचकेन्द्रतः हीरहर्षोपाध्यायपुरंदरात् ते तव पदस्य पट्टस्योदयो भविता उन्नतिर्भाविनी । 'उदयः पर्वतोन्नत्योः' इत्यनेकार्थः । कस्मादिव । सितपक्षादिव । यथा शुक्लपक्षात् शीतदीधितेः शिशिरकिरणस्य चन्द्रमस उदयो भवति ॥ इति शकुनावलोकनम् ॥ બ્લેકાર્થ શકુન શાસ્ત્રીઓએ ગુરુદેવ સમક્ષ આ પ્રમાણે નિવેદન કર્યું, કે હે પ્રભો ! જેમ શુકલ પક્ષથી ચંદ્રનો ઉદય થાય છે, તેમ હીરહર્ષઉપાધ્યાયથી આપની પાટને મહાન અભ્યય થશે. કલા विधुवद् गणपुंगव नवो-दयमालोकयितुं हृदीच्छता । अथ सूरिपदार्पणाविधौ, प्रभुरागृह्यत धीसखेन सः ॥१०॥ अथ ध्यानसमाप्तिबहिरागमनशकुनावलोकनानन्तर धीसखेन अर्थात् शिवपुरीसंघपुरःसरीकृतचाङ्गासंघपतिमन्त्रिणा स प्रभुर्विजयदानसूरिः सूरेराचार्यस्य पदस्यार्पणा प्रदान तस्य विधिः प्रकारस्तत्र विषये । 'विभूषणानां मणिमण्डले नलः । स्वरूपलेखामवलोक्य निष्फलीचकार सेवाचणदर्पणार्पणाः ॥' इति नैषधे । आगृह्यत गुरोरत्याग्रहः कृतः । धीसखेन किं कुर्वता । नवोदय नवीना उन्नतिर्यस्य तादृशं गणपुंगव गच्छनायक आ लोकयितु द्रष्टुं हृदि स्वहृदये इच्छता काश्ता । किंवत् । विधुवत् , यथा धीसखेन विद्वजनेन शुभकार्यकरणार्थ नवोदय चन्द्र स्पृहयता भूयते ॥ सार्थ જેમ વિદ્વજન શુભકાર્યમાં ચન્દ્રોદયની સ્પૃહા રાખે છે તેમ નૂતન ઉદયવાળા નવા ગચ્છના૨કને જેવાને ઇચ્છતા સંઘસહિત મંત્રીશ્વર “ચાંગા' સંઘપતિએ આચાર્ય પદ પ્રદાન કરવા માટે ગુમહારાજને આગ્રહ કર્યો. ૧૦ अवधार्य तदाग्रह हिता-मिव वाणी भणितो हितैषिणा । तत ओमिति वक्त्रवारिज, वचसा योजितवान् स तत्पुरः ॥१.१॥ ततस्तदाग्रहकरणानन्तरस गुरुर्विजयदानसूरिस्तत्पुरश्चाङ्गासंघपतेरग्रे इत्यमुना प्रकारेण वचसा वचनेन कृत्वा वक्त्रवारिजवदनकमल योजितवान् योजयामास । इति किम् । वाक्ये एवमस्तु । ओमिति स्वीकारे । 'ओमिति प्रतिपद्यस्व' इति हेमाचार्यकृतवीतरागस्तवे । कि कृत्वा । तदाग्रह ससंघचाङ्गागासंघपतिविज्ञप्तिकामवधार्य हृदये घृत्वा । कामिव । वाणीमिव । यथा हितैषिणा स्वस्यायतौ सुखकाङ्किणा पुरुषेण स्वजनेन मित्रेण वा भणितां कथितां हितां पथ्यां वाच विद्वान् हृद्यवधारयति । 'हित पथ्ये गते धृते' इत्यनेकार्थः॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy