________________
सर्ग १ श्लो० १३-१४-१५] हीरसौभाग्यम्
શ્લોકાઈ અસંખ્યાત દીપરૂ૫ રાજાવડે સેવા, ચંદ્ર અને સૂર્યરૂપી બે ચક્રને ધારણ કરનારો, ભરત આદિ ઘણા ક્ષેત્રોનો સ્વામી, અને જેનામાં રત્ન ભરેલા નિધિઓ અને સમુદ્ર રહેલા છે, એવો જંબુદ્વીપ ચક્રવર્તીની જેમ શોભે છે.
ચક્રવતી એક ચક્રને ધારણ કરનારો હોય છે. ભરતક્ષેત્રને જ સ્વામી હોય છે, ચૌદ રતને, નવ નિધાને તેમજ બત્રીસ હજાર રાજાઓ વડે જ સેવા હોય છે, જ્યારે જંબુદ્વીપ ચંદ્ર અને સૂર્ય બે ચક્રોને ધારણ કરનારો છે ! ધાતકીખંડ આદિ અસંખ્યાત દ્વીપોનો સ્વામી છે. ભરત આદિ અનેક ક્ષેત્રોને સ્વામી છે ! અનેક રત્નોવાળા નિધાન અને સમુદ્રો જેમાં રહેલાં છે! એ જંબુદ્વીપ અદભુત વેભવ વડે શોભી રહ્યો છે I૧૩
अन्तःस्फुरन्मौक्तिकरत्नराजी-विराजिकुल्येशदुकूलभाजः । भास्वज्जगत्यर्जुनमेखलाया, निशावशाहर्मणिकर्णिकायाः ॥१४॥ संध्यारुचीकुङ्कुमपङ्किलाङ्क-प्राचीप्रतीचीक्षितिभृत्कुचायाः ।
द्वीपश्रियास्तारकतारहारे, किनायको राजति रत्नसानुः ॥१५॥ ॥ युग्मम् ॥
यत्र जम्बूद्वीपे रत्नसानुर्भेरू राजति शोभते । कि। उत्प्रेक्ष्यते-द्वीपश्रिया जम्बूद्वीपलक्ष्म्यास्तारका ज्योतींषि ता एव तारा निर्मलमौक्तिकानि । 'तारो निर्मलमौक्तिके' इत्यनेकार्थः । तेषां हारस्तत्र किनायको मध्यमणिः । किंभूताया द्वीपश्रियाः। अन्तर्मध्ये स्फुरतां द्योतमानानां मौक्तिकानां मुक्ताफलानां रत्नानां मणीनां राजी श्रेणी तया विराजते इत्येवंशीलो यः कुल्यानां नदीनाम् । 'कुल्या तु सारिणी नद्योः' इत्यनेकार्थः । ईशः स्वामी । 'यादः स्रोतोवानंदीशः' इति हैमीवचनात् । समुद्र] एव दुकूल क्षौमवस्त्र भजत्याश्रयते सा तस्याः । 'सागराच्चाने स्युनॆमी मेखलाम्बराः' इति हैमीवचनात् । समुद्रस्य वस्त्रत्वेनोपादानम् । पुनः किंभूतायाः। भास्वन्ती दीप्यमाना या जगती । कपिशीर्षकवजितप्राकारभित्तिः। सैवार्जुनस्य सुवर्णस्य मेखला काञ्ची यस्याः सा तस्याः। पुनः किंभूतायाः । निशा रात्रि शा प्रिया यस्य स निशापतिश्चन्द्रस्तथाहर्मणिर्भास्करस्तावेव काणके कर्णभूषणे यस्याः सा तस्याः । पुनः किंभूतायाः। संध्ये दिनाद्यवसानभवे तयो रुची कान्तिः । रुचीशब्दो दीर्धकारान्तोऽप्यस्ति । यथा-'रुच्यो रुचीभिजितकाञ्चनाभिः' इति नैषधे । सैव कुङ्कुम केसरं तेन पङ्किलौ व्याप्तावकावुत्सङ्गो ययोस्तथाविधौ यौ प्राची पूर्वा प्रतीची पश्चिमा तयोः क्षितिभृतौ पर्वतावुदयास्ताचलनामानौ तावेव कुचौ स्तनौ यस्यास्तस्याः ॥ १ 'कुण्डलायाः' इति पाठः ।