SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सर्ग १ श्लो० ४-५ ] हीरसौभाग्यम् सन्तः ? शुद्धो मात्सर्यरहित आशयोऽभिप्रायो मनो वा येषां ते । आशयशब्देन चित्तमपि प्रोच्यते । यथा नैषधे-'दयासमुद्रे स तदाशयेऽतिथीचकार' इति । तवृत्तिः-तदा. शये नलचित्त । शुद्धाशयाः क इव ? प्रवाहा इव । यथा जाह्नवीया जाह्नव्या गङ्गाया इमे जाह्ववीयाः प्रवाहा ओघा निर्मलमध्याः स्युः । ते के सन्तः ? येषां सतां मनीषा वुद्धिः कवीनां काव्यकर्तृणां कवित्व काव्यम् । जातावेकवचनम् । तदेव निष्क सुवर्ण कषितु सम्यक्परीक्षितु कषपट्टिकेव । कषः स्वर्णपरीक्षणपाषाणविशेषस्तस्य पट्टिका शिला तद्वद्वर्तते । यथा कषोपलेन स्वर्ण परीक्ष्यते तथा यत्प्रतिभाप्रागल्भ्येन काव्यमपि विशुद्ध विधीयते ॥ શ્લોકાઈ ગંગાના પ્રવાહ જેવા શુદ્ધ અને નિર્મલ અંતઃકરણવાળા સત્પર મારા ઉપર પ્રસન્ન થાઓ, જેઓની બુદ્ધિ કવિજનોનાં કાવ્યરૂપ-સુવર્ણની પરીક્ષા માટે કસોટી જેવી છે. (જેમ કસોટીના પાષાણ S५२ सुवानी परीक्षा थाय छ, तम सत्पुरुषांनी प्रतिमा ४०य ५९ शुद्ध मने छ.) ॥४॥ अथ प्रस्तुताभिधेयमाहव अन्य अभिधेय (विषय) मतापे छ:-- अमन्दगन्धैरिव गन्धसारो, दिशो यशोभिः सुरभीकरोति । वृत्तं व्रतीन्द्रस्य तनोमि तस्य, कुरान्ववायास्वरपद्मबन्धोः ॥५॥ ___ अहं तस्य साहिश्रीमदकब्बरनरपतिप्रदत्तजगद्गुरुबिरुदतया जगति विख्यातिभाजो वतिनां साधूनामिन्द्रस्य श्रीहीरविजयसूरीश्वरस्य वृत्त काव्यंचरित वा तनोमि विस्तारयामि । करोमीत्यर्थः । 'कथिताः करणे तनने ग्रथने चोत्पादने च ये पूर्वम् । ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव ॥' इति क्रियाकलापोक्तेः। किं च वृत्तनायकाश्चतुर्विधा वर्ण्यन्ते । धीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्च । तत्र धीरोदात्ता रामचन्द्रादयः, धीरोद्धता दुर्योधनादयः, धीरललिता नलादयः, धीरप्रशान्ता जीसूतवाहनप्रमुखाः । तेषु तेष्वपि नायकेषु श्रीहीरविजयसूरे(रप्रशान्तत्वेन वृत्तकरण युक्तिमदेव । कि० ? कुरा इति नामा व्यवहारी तस्य योऽन्ववायो वंशः । 'गोत्रं तु संतानोऽन्ववायो. ऽभिजनः कुलम्' इति हैमः । स एवाम्बरमाकाश तत्र प्रकाशकत्वात्पद्मानां बन्धुरिव पद्मबन्धुर्भास्वान् । यत्तदोः संबन्धात्तस्य । कस्य ? यो वतीन्द्रो यशोभिः स्वकीर्तिभिः कृत्वा दिशः सर्वा अप्याशाः सुरभीकरोति वासयति । चित्रास्पदीकरोतीत्यर्थः । क इव ? गन्धसार इव । यथा चन्दनगमः अमन्दरतिवहुलैर्गन्धैः परिमलैर्दिशः सुरभयति समस्तहरितः सुरभीकुरुते ॥ શ્લોકાઈ બાદશાહ અકબરે આપેલા “જગશુના બિરુદથી સારાયે વિશ્વમાં ખ્યાતિ પામેલા, “કુરા”
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy