SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६० हीरसौभाग्यम् [सर्ग ४ श्लो० ९७-९९ चन्द्रादयः सुरा येन । स कः । यः प्रभुः सर्वदेवसूरिर्गुणश्रिया शमदमसंयमधैर्यगाम्भीर्याद्यनेकगुणलक्ष्म्या अन्वयायि अनुगतः । आश्रित इत्यर्थः । क इव । तारापतिरिव । यथा चन्द्रस्तारकपर्षदा ताराश्रेण्या अनुगम्यते आश्रीयते । अत्र पर्षदशब्दः श्रेणीवाची । 'उडुपरिषदः किं नाहन्ती निशा किमनौचिती' इति नैषधे । अर्हतो भावः आर्हन्ती । 'अर्हतो नुम्वा' इति विभाषया नुविधानात् आर्हन्ती आहती रूपद्वयसिद्धिरिति प्रसङ्गाद्दर्शिता ॥ શ્લોકાઈ પિતાના માહાત્મવડે ઇન્દ્ર ચન્દ્ર આદિ સમસ્ત દેવોને જેમણે નમ્ર બનાવ્યા છે એવા “સર્વ દેવ’ નામના આચાર્ય ઉદ્યોતનસુરિની પાટે થયા. તે જેમ તારાપંક્તિ ચન્દ્રને અનુસરે છે તેમ સમ, દમ, સંયમ આદિ ગુણોની શ્રેણિ શ્રી સર્વદેવસૂરિને અનુસરતી હતી. હા यो रामसेनाहपुरे व्रतीन्दु-र्लब्धिश्रिय गौतमवद्दधानः । नाभेयचैत्ये महसेनसूनो-र्जिनस्य मूर्तेविदधे प्रतिष्ठाम् ॥१८॥ ___ यो व्रतीन्दुः सर्वदेवसूरिः रामसेना इत्याह्वा नाम यस्य तादृक पुरे रामसेणिनगरे नामेयदेवस्य श्रीऋषभनाथस्य चैत्ये प्रासादे महसेननाम्नो नृपस्य सूनोर्नन्दनस्य श्रीचन्द्रप्रभस्वामिनः मूर्तेः प्रतिमायाः प्रतिष्ठां विदधे कृतवान् । सूरिः किं कुर्वाणः । गौतमवद्गौतमखामीव लब्धीनां तपःशक्तिविशेषाणां क्षीरानवादिकानां श्रियं शोभां दधानो धारयन् ॥ બ્લેકાર્થ શ્રીગૌતમસ્વામીની જેમ ક્ષીરાસ્ત્રવ આદિ લબ્ધિઓને ધારણ કરનારા “સર્વદેવસૂરિએ “રામસેન’ નામના નગરમાં શ્રી ઋષભદેવના પ્રાસાદમાં મહસેન રાજાના પુત્ર શ્રી “ચન્દ્રપ્રભ સ્વામીની મૂર્તિની પ્રતિષ્ઠા કરી હતી. ૯૮ चन्द्रावतीशस्य नृपस्य नेत्र, इवास योऽशेषविशेषदर्शी । त क्लुप्तचैत्यं प्रतिबोध्य वाचा, प्रावाजयत् कुङ्कुणमन्त्रिण यः ॥१९॥ यः सर्वदेवत्रिः कुकुणनामान मन्त्रिण प्रधान वाचा स्ववाणीविलासेन प्रतिबोध्य संसारविरक्तं कृत्वा प्रावाजयदीक्षयामास । किंभूत कुकुणम् । क्लप्त निर्मापित चैत्यं जिनप्रासादो येन । यः कुङ्कुणो मन्त्री चन्द्रावत्याः पुर्या ईशस्य स्वामिनः चण्डाउलिनगरनाथस्य नृपस्य राज्ञः नेत्र इवास नयनमिव बभव । तदद्वारव सर्वकार्यार्थानां विलोकनत्वेन । किंभूतो यः । अशेषाः समस्ता ये विशेषाः षड्गुणशक्तित्रिकसामादिचतुकोपायादिकार्योपनिषदस्तान् पश्यति सम्यक्तया जानाति वक्तीत्येवंशीलः समग्रराजकार्यकुशल इत्यर्थः ॥ इति श्रीसर्वदेवसरिः ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy