________________
सर्ग ४ श्लो० ७२-७४] हीरसौभाग्यम्
२४९ __ यो लोकानां पातालभूमिस्वर्गलक्षणानामीश्वरैरिन्द्रेर्नागेन्द्रनरेन्द्रसुरेन्द्रीतो गानविषयीलता कीर्तिता वा कीर्तिर्यस्य तादृशो व्रतिनां साधूनामिन्द्रः खामी श्रीमानदेवसूरिः षट्संख्याका घृतपक्कात्रतेलगुडदधिदुग्धाभिधा विकृतीस्तत्याज जहाति स्म । उत्प्रेक्ष्यतेषट्संख्याकान् कामक्रोधमदमत्सरमायालोभादिकान् आन्तरान् अन्तरङ्गान् रिपून विजेतुकामः पराभवितुमिच्छुरिव । किं कृत्वा । इत्थममुना प्रकारेण विमनायमान विरुद्ध मनो यस्य स विमनाः, न विमना विमनाः स्यादिति बिमनायते, विमनायते इति विम नायमानस्तम् । 'भृशादिभ्यो भुव्यर्थे च्वेर्लोपश्च हलः । भृशादिभ्यव्यर्थे भवत्यर्थे क्या स्यात् न तु व्यन्तेभ्यः अन्तहल्लोपश्च । अभृशो भृशो भवतीति भृशायते उन्मनायते' इति प्रक्रिया कौमद्याम । स्वमात्मीय गरुं प्रद्योतनसुरिमालोक्य दृष्टा । इत्थं कथं पदस्य सूरिपदस्य प्रदानावसरे विश्राणनव्यतिकरे तदसोपरि मानदेवसूरिस्कन्धोपरिष्टात् साक्षात्प्रत्यक्षलक्ष्ये वाणिपद्मे सरस्वतीलक्ष्म्यौ । वाणिशब्दो ह्रस्वोऽप्यस्ति । 'अन्तर्वाणिस्तु शास्त्रवित्' इति हैम्याम् । अन्यत्रापि-व........ ' । हा इति खेदे । सरस्वतीलक्ष्मीसंश्रितत्वेन राजादिसत्कारजनितप्रमादाचरणवशादित्यध्याहार्यम् । नियमस्थितेश्चारित्रादस्य मम पट्टधरस्य भ्रंशो भावी व्रताद् भ्रष्टो भविष्यतीति । कस्येव । क्षोणिपुरंदरस्येव । यथा कस्यचिद्राक्षः अन्यायासेवनरूपप्रमादागाज्या संशो भवति । युग्मम् ॥
स શ્રી પ્રદ્યોતનસૂરિએ આચાર્યપદના પ્રદાન સમયે શ્રીમાનદેવરના કંધ ઉપર રમત સાક્ષાત લક્ષ્મી અને સરસ્વતીને જોઈને, એટલે કે રાજા આદિના માન સત્કાર અને અપૂર્વ પ્રકારની વિદ્વત્તાને જોઈને, જેમ પ્રમાદને આધીન બનેલા રાજ, રાજ્ય ઉપરથી ભ્રષ્ટ થાય છે તેમ આ મારો પધર રાજ્ય–સન્માન અને અસાધારણ કટિની પ્રતિભાને પામીને શું ચારિત્રમાર્ગથી ભ્રષ્ટ થશે?” આવા વિકલ્પથી શૂન્યમનસ્ક બનેલા પોતાના ગુરુ પ્રદ્યોતનસુરિને જોઈને, ગુના અભિપ્રાયને જાણનારા અને સુરેન્દ્ર, નાગેન્દ્ર અને મહીન્દ્રોની પ્રશંસાને પામેલા એવા માનદેવરિએ, ઘી, પકવાન, તેલ, ગોળ, દહીં, દૂધ આદિ છએ વિગઈઓને જીવન પર્યત ત્યાગ કર્યો હતો. તે જણે, કામ, ક્રોધ, મદ, મત્સર માયા અને લેભ તે રૂપ છ અંતરંગ શત્રુઓને જીતવા ઈચ્છતા ન હોય ? કરાયા
चमूभिर्वीन्द्रमिवामरीभि-रुपास्यमानं यमवेक्ष्य कश्चित् ।
किं स्त्रीयुतोऽसाविति संशयानो, नड्डूलकेऽशिक्ष्यत ताभिरेव ॥७४॥
चमूभिर्गजवाजिरथपत्तिलक्षणाभिश्चतुरङ्गिणीभिः सेनाभिः उर्वीन्द्र क्षोणीशक्रमिव । पद्मा-जया-विजया-अपराजिताभिधाभिश्चतसृभिर्देवीभिः प्रत्यक्षमुपास्यमान सेव्यमान नड्डू. लनगरोपाश्रयापवरके य मानदेवसूरिमवेक्ष्य दृष्ट्वा असौ आचार्यः किं स्त्रीयुतो वनिताकलितोऽस्तीति संशयानः संदेह कुर्वाणः । कश्चित् स्वयं संतिष्ठासुतया दुष्टयवनप्रकरैः प्रणुन्नतन्निकृष्टनिर्जरनिर्मितजनार्युपप्लवोपद्रुतेन तिक्षशिलानगरीसंघेन कृतकायोत्सर्गप्रभा
1 'तक्षशिला' इति पाठो भवेत् ।