________________
सर्ग ४ श्लो० ५०-५२] हीरसौभाग्यम्
२३९ विन्ध्य निपीताब्धिरिव व्रतीन्द्रो, य एधमान निषिषेध कोपम् । यद्वाक्तरङ्गश्च जिताभ्रसिन्धुः, त्रपातिरेकादिव निम्नगाऽऽसीत् ॥५०॥
यः सीहगिरि म व्रतीन्द्रो मुनिपुरंदर एधमान जगजनाश्रयत्वेन वर्धमान कोप क्रोध निषिषेध न्यवारयत् । क इव । निपीताब्धिरिव । यथा अगस्तितापसः कथंचित् सूर्यमार्गरुन्धनाय वर्धितु प्रवृत्त विन्ध्याचल निषेधते स्म । च पुनर्यस्य सीहगिरिसूरेक्तिरमौर्वचनचातुर्यरसकल्लोलैः कृत्वा जिताऽभिभूता सती अभ्रसिन्धुर्गगनगङ्गा । उत्प्रे. क्ष्यते । त्रपातिरेकात् लजातिशयात् निम्न नीचैर्गच्छतीति निम्नगेवासीदधोवदना जाता॥ इति सीहगिरिसूरिः॥
શ્લેકાર્થ સમુદ્રનું પાન કરનારા “અગસ્તિ’ નામના તાપસે જેમ સૂર્યના માર્ગને અવરોધ કરવા માટે વધતા એવા વિધ્યાચલનું નિવારણ કર્યું હતું. તેમ મુનીન્દ્ર એવા સિંહગિરિ રિએ, જગતના - જીવોના આશ્રયે વૃદ્ધિને પામતા એવા ક્રોધનું નિવારણ કર્યું હતું. આ સિંહગિરિના વાક્યાતુર્યાપી કલ્લોલવડે પરાભવ પામેલી આકાશગંગા લજજાના અતિરેકથી જાણે અધમુખવાળી બની ગઈ ન હોય ? પલા
तमोभरोर्वीधरभेदवज्रि-वज्रोऽथ वज्रप्रभुरेतदीयम् । पढें परां प्रापयति स्म भूषां, माणिक्यकोटीर इवोत्तमाङ्गम् ॥५१॥
अथानन्तर वज्रप्रभुर्वज्रस्वामी एतदीय सीहगिरिसंबन्धिन पट्ट परां प्रकृष्टां भूषां लक्ष्मी प्रापयति स्म । किंभूतो वज्रप्रभुः । तमसामज्ञानानां पापानां च भरः समुदायः स एवोर्वीधरः पर्वतस्तस्य भेदे व्यापादने दलने वज्रिणः शक्रस्य वज्र इव कुलिशः इव । हीरमणिशङ्कामपाकर्तु वज्रीति पदोपादानम् । तथा च नैषधे-'स्फुलिङ्गाः स्फुट भालो
द्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः' इति । क इव अलंकृतवान् । कोटीर इव । यथा माणिक्यानां मणिविशेषाणां कोटीरो मुकुटः उत्तमाग भूपालमौलि नृपमस्तक श्रिय नयति ॥
શ્લોકાર્થ માણિક્યમણિને મુગટ જેમ રાજાના મસ્તકની શોભામાં વધારો કરે છે તેમ અજ્ઞાનના સમૂહરૂપ પર્વતને ભેદવામાં ઈન્દ્રના વજ સમાન શ્રીવાસ્વામીએ શ્રીસિંહગિરિસૂરીની પટ્ટલક્ષ્મીની શોભાને વધારી. ૫૧
आशैशवादेव जहौ निजाम्बा, वेलामित्र क्षीरनिधेः सुधांशुः ।
अध्यैट यः पालनके शयानो-ऽप्येकादशाङ्गी स्मृतपूर्वजन्मा ॥५२॥
यो वज्रस्वामी आशैशवादेव । किंचिन्न्यूनषण्मास्यवस्थामारभ्य रोदनदम्भेनेत्यर्थान्तर निजामात्मीयामम्बां सुनन्दानाम्नी मातर जहौ त्यजति स्म । क इव । सुधांशुरिव ।